Enter your Email Address to subscribe to our newsletters

उज्जयिनीनगरम्, १७ जनवरीमास: (हि.स.)। मध्यप्रदेशस्य उज्जयिनीनगरे शनिवासरे प्रातःकाले भारतीय-क्रिकेट-दलस्य प्रसिद्ध-क्रीडक: विराट-कोहली तथा कुलदीप-यादवः ज्योतिर्लिङ्गस्य भगवतः महाकालेश्वरस्य प्रातःकालीन-भस्म-आरार्तिक्याम् उपस्थितौ भूत्वा दर्शन-लाभं कृतवन्तौ। दर्शनानन्तरं महाकालेश्वर-मन्दिर-प्रबन्ध-समितेः पक्षतः अपर-संग्राहकः तथा प्रशासकः प्रथम-कौशिकः एवं सहायक-प्रशासकः मूलचन्द-जूनवालः विराट-कोहलीं कुलदीप-यादवं च स्वागतं कृतवन्त:।
ब्रह्म-मुहूर्ते विराट-कोहली कुलदीप-यादवश्च महाकालेश्वर-मन्दिर-परिसरं प्राप्तवन्तौ। अस्मिन् समये मन्दिर-परिसरे सुरक्षायाः विशेष-व्यवस्थाः कृताः आसन्। भस्म-आरार्तिक्याम् उभौ अपि क्रीडकौ पूर्ण-श्रद्धा-भावेन पूजा-अर्चनायां लीनौ दृश्येते स्म। तौ भगवतः महाकालस्य पुरतः नतमस्तकौ भूत्वा देशस्य, दलस्य तथा स्वस्य उज्ज्वल-भविष्यस्य कामनां कृतवन्तौ।
भस्म-आरार्तिक्या: काले मन्दिरे उपस्थिताः भक्ताः अपि एतेषां अन्ताराष्ट्रिय-क्रिकेट-क्रीडकाना् द्रष्टुं प्रयत्नं कृतवन्तः। अस्मिन् अवसरे मन्दिर-प्रशासनद्वारा शान्तिः अनुशासनं च यथावत् रक्षितम्।
उल्लेखनीयम् अस्ति यत् महाकालेश्वर-मन्दिरस्य भस्म-आरार्तिकं देशे विदेशे च स्वस्य विशिष्ट-परम्परायाः कारणेन प्रसिद्धा अस्ति। एषा मान्यता वर्तते यत् अस्यां आरार्तिक्यां सहभागी भूत्वा भक्ताः विशेष-पुण्यं प्राप्नुवन्ति। विराट-कोहली कुलदीप-यादवश्चापि अस्य अलौकिक-दिव्य-वातावरणस्य अनुभवम् अकुरुताम्।आरार्तिक्या: पश्चात् उभौ क्रीडकौ गर्भगृहात् बहिः उपविश्य किञ्चित् कालं ध्यानं कृतवन्तौ तथा मन्दिरस्य प्राचीनाम् आध्यात्मिक-ऊर्जां च स्वयमेव अनुभूतवन्तौ।
दर्शन-पूजनयोः अनन्तरं महाकालेश्वर-मन्दिर-प्रबन्ध-समितेः पक्षतः उभयोः क्रीडकयो: विधिवत् स्वागतं सम्मानं च कृतम्। अस्मिन् अवसरे अपर-संग्राहकः एवं मन्दिर-प्रशासकः प्रथम-कौशिकः तथा सहायक-प्रशासकः मूलचन्द-जूनवालः विराट-कोहलीं कुलदीप-यादवं च प्रवारेण प्रसादेन च सम्मानितवन्तौ। मन्दिर-प्रशासनम् उभयोः महाकालेश्वर-ज्योतिर्लिङ्गस्य धार्मिक-ऐतिहासिक-महत्त्वस्य अपि परिचयं दत्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता