स्क्रीनपटलस्य प्रकाशे निमीलिता युवसंवेदना
-डॉ. संध्‍या एस चौकसे संस्कृत भाषान्तरण अद्यतनं भारतं यूनां भारतम् अस्ति। एते एव युवानः राष्ट्रस्य मेरुदण्डाः सन्ति, भविष्यस्य आधारशिलाः च। किन्तु विडम्बना एषा यत् येषु हस्तेषु लेखनी पुस्तकानि उपकरणानि च सर्जनशीलता च भवितव्या, तेषु एव हस्तेषु अद
संध्‍या एस चौकसे


-डॉ. संध्‍या एस चौकसे

संस्कृत भाषान्तरण

अद्यतनं भारतं यूनां भारतम् अस्ति। एते एव युवानः राष्ट्रस्य मेरुदण्डाः सन्ति, भविष्यस्य आधारशिलाः च। किन्तु विडम्बना एषा यत् येषु हस्तेषु लेखनी पुस्तकानि उपकरणानि च सर्जनशीलता च भवितव्या, तेषु एव हस्तेषु अद्य प्रतिक्षणं दीप्तिमती एका पट्टिका दृश्यते—चलदूरवाणी। या चलदूरवाणी विश्वं अस्माकं मुष्टौ समाहितवती, सा एव अधुना अस्माकं संवेदनाः सम्बन्धान् सन्तुलनं च शनैः शनैः निगलति इव। अतः अद्य चलदूरवाणी न केवलं आधुनिकतायाः प्रतीकः अस्ति, अपि तु क्षीयमाणायाः मानवीयसंवेदनशीलतायाः स्पष्टतमं मुखं जातम् अस्ति।

अङ्कीयक्रान्त्या शिक्षायां सञ्चारे सूचनाक्षेत्रे च अभूतपूर्वाः अवसराः दत्ताः—अत्र न संशयः। परन्तु यदा उपयोगस्य मर्यादा भङ्गं गच्छति, तदा स एव साधनः विनाशस्य कारणं भवति। भारतदेशे अद्य युवा वर्गः चलदूरवाणीलतायाः सर्वाधिकः पीडितः अस्ति। राष्ट्रियान्ताराष्ट्रियानां अध्ययनानाम् अनुसारं भारतदेशे प्रायः पञ्चाशत् प्रतिशतं युवानः कस्यचित् रूपेण चलदूरवाण्यां आश्रयलक्षणानि वा लतायाः चिह्नानि दर्शयन्ति। विश्वस्तरे प्रायः ६.९ प्रतिशतं जनसंख्या स्मार्टफोनाश्रणेन ग्रस्ता इति मन्यते, यस्मिन् भारतीययूनां संख्या शीघ्रं वर्धते। एते अङ्काः अस्माकं सम्मुखे स्थितायाः गम्भीरायाः सामाजिकसमस्यायाः संचेतनां ददति।

अद्यतनकाले चलदूरवाण्या सह सम्बद्धाः हिंसकाः आत्मघातकाः च घटनाः समाजं कम्पयन्ति। ओडिशाराज्यस्य जगतसिंहपुरे एकविंशतिवर्षीयः छात्रः चलदूरवाणीदर्शनात् निषिद्धः सन् स्वमातापितरौ स्वसारं च हतवान्। मध्यप्रदेशस्य बालाघाटजिलायां किशोरः सर्वदा चलदूरवाण्याम् मग्नः इति कारणेन पित्रा निषिद्धः सन् लौहदण्डेन मातापितरौ आक्रान्तवान्, यस्मिन् पितुः प्राणाः कथञ्चित् रक्षिताः, माता तु मृत्युम् अगच्छत्। राजस्थानस्य जयपुरे त्रयोदशवर्षीया बालिका मातापितृभ्यां चलदूरवाणीदर्शनात् निषिद्धा सती क्रोधात् प्रथमं स्वहस्तनाडीं छिन्नवती; उपचारैः सा रक्षिता, परन्तु अपरस्मिन् दिने नदीं प्रविश्य आत्मघातं कृतवती। छत्तीसगढे सरगुजायां च घटिताः घटनाः दर्शयन्ति यत् चलदूरवाणी अधुना केवलं आदतिः नास्ति, अपि तु अनेकेषां युवानां कृते भावनात्मकनियन्त्रणस्य केन्द्रं जातम्। यदा तेषां समीपात् सा दूरं गच्छति, तदा तेषां अस्तित्वमेव नष्टमिव अनुभूयते।

यौवनावस्था लक्ष्यस्य अनुशासनस्य निर्माणस्य च कालः अस्ति। किन्तु चलदूरवाण्याः अनन्तं जगत् युवानः लक्ष्यहीनतां प्रति नयति। रील्स् क्रीडाः संवादाः च मध्ये घण्टानां व्यतीतिः अध्ययनं कौशलविकासं शारीरिकक्रियाः च अपहरति। अध्ययनानुसारं औसतः भारतीययुवा प्रतिदिनं चतुरः षट् घण्टान् पर्यन्तं चलदूरवाण्यां यापयति, यदा विश्वस्वास्थ्यसङ्घः किशोराणां कृते द्विघण्टाभ्यधिकं स्क्रीनकालं हानिकरं मन्यते। अस्य असन्तुलनस्य परिणामः एकाग्रतायाः ह्रासः, धैर्यस्य अभावः, त्वरितसुखस्य मानसिकता च।

मानसिकस्वास्थ्ये चलदूरवाण्याः प्रभावः अत्यन्तं घातकः सिद्धः भवति। सामाजिकमाध्यमेषु प्रदर्शिताः तथाकथिताः परिपूर्णजीवनचित्राः युवानः निरन्तरं तुलनाजाले बध्नन्ति। ‘लाइक्’ ‘फॉलोअर्स्’ च आत्ममूल्याङ्कनस्य मापदण्डाः भवन्ति। अनुसन्धानेषु दृश्यते यत् ये किशोराः प्रतिदिनं चतुर्घण्टाभ्यधिकं चलदूरवाणीं उपयुञ्जते, तेषु अवसादलक्षणानि षष्टिशतप्रतिशतपर्यन्तं अधिकानि सन्ति। चलदूरवाणीलता चिन्ता-अवसाद-निद्राविकाराणां सम्भावनां द्विगुणत्रिगुणपर्यन्तं वर्धयति। अनिद्रा चिड़चिड़ापनं निर्णयकठिनता च अद्य सामान्यसमस्याः जाताः।

सामाजिकविलगावः अस्य संकटस्य अपरः गम्भीरः पक्षः अस्ति। आभासीयसंवादः वास्तविकसम्बन्धानां स्थानं गृहीतवान्। एकस्मिन् सर्वेक्षणे कथितं यत् चलदूरवाण्याः कारणात् मातापित्रोः बालकैः सह औसतसंवादकालः केवलं द्विनिमेषः अवशिष्टः। यदा कुटुम्बे संवादः भङ्गं गच्छति, तदा भावनात्मकसुरक्षा अपि दुर्बला भवति। अतः चलदूरवाणीलताग्रस्तेषु किशोरेषु सामाजिकसमर्थनस्य न्यूनता पञ्चविंशतिः त्रिंशतिः प्रतिशतपर्यन्तं अधिका दृश्यते, या तान् आत्मघातविचारैः आत्महान्याः दिशं च नयितुं शक्नोति।

शारीरिकस्वास्थ्यं अपि अस्य अङ्कीयलतायाः स्पर्शात् मुक्तं नास्ति। दीर्घकालं स्क्रीनदर्शनात् नेत्रज्वाला शिरःशूलं ग्रीवापृष्ठशूलं च सामान्यं जातम्। रात्रौ विलम्बितं चलदूरवाणीप्रयोगः निद्राचक्रं विक्षिपति, येन हार्मोनसन्तुलनभङ्गः रोगप्रतिरोधकशक्तिह्रासः च भवति। क्रीडाश्रमस्य स्थाने उपविष्ट्वा चलदूरवाणीप्रयोगः स्थूलता आलस्यं जीवनशैलीजन्यरोगांश्च वर्धयति।

नैतिकभावनात्मकस्तरे चलदूरवाण्याः प्रभावः अधिकं चिन्ताजनकः अस्ति। अन्तर्जाले सुलभतया उपलब्धा अश्लीलता हिंसा नकारात्मकवस्तूनि च युवानां चिन्तनं विक्षिपन्ति। पुनः पुनः हिंसादृश्यदर्शनात् संवेदनशीलता क्षीयते, अन्येषां दुःखदर्दे प्रति सहानुभूतिः न्यूना भवति। साइबरबुलिङ्ग् ट्रोलिङ्ग् द्वेषपूर्णसन्देशाः च युवानः आक्रामकान् असहिष्णून् च कुर्वन्ति। त्वरिततृप्तेः आदतिः धैर्यं उत्तरदायित्वं त्यागः इत्यादीन् मूल्यमानान् दुर्बलयति।

शिक्षाक्षेत्रे अपि चलदूरवाणी द्विधारीखड्गवत् जाता। एकस्मिन् पक्षे आनलाइनसाधनैः अध्ययनं सुलभं कृतम्, अन्यस्मिन् पक्षे अनियन्त्रितप्रयोगः अध्ययनविघ्नं करोति। सूचनासन्देशानां संवादानां च मध्ये गम्भीराध्ययनं दुर्लभं भवति। प्रतिलिपि-आसङ्ग्रहसंस्कृतिः मौलिकचिन्तनं विश्लेषणक्षमतां च हन्यते। अनेन दीर्घकालीनः बौद्धिकविकासः बाध्यते, युवा शॉर्टकट्-मानसिकतया ग्रस्ताः भवन्ति।

साइबरअपराधाः अपि यूनां कृते महत् संकटः जातम्। मिथ्यापरिचयाः आनलाइनठगी दत्तचौर्यं ब्लैकमेलिङ्ग इत्यादयः घटनाः युवानः मानसिकतया आर्थिकतया च क्षिण्वन्ति। निजीचित्राणां सूचनानां च दुरुपयोगः गोपनीयताभङ्गं वर्धयति। अनुभवाभावात् युवा एतेषु जालेषु शीघ्रं पतन्ति।

अतः एतासु परिस्थितिषु अङ्कीयविरतिः (डिजिटल् डिटॉक्स्) अद्य समयस्य आवश्यकता जाता। सप्ताहे केचन घण्टाः वा एकः दिवसः चलदूरवाण्या वियोगः मानसिकशान्तिं सन्तुलनं च दातुं शक्नोति। स्क्रीनकालस्य स्पष्टमर्यादा निर्धारणं, उद्देश्यपूर्णप्रयोगस्य प्रोत्साहनं, अङ्कीयसाक्षरतायाः साइबरसुरक्षायाः च प्रशिक्षणं अत्यावश्यकम्। मातापितरः स्वयमेव आदर्शं स्थापयन्तु, बालकैः सह संवादं वर्धयन्तु। शैक्षणिकसंस्थाः क्रीडा कला पुस्तकपठनाद्याः ऑफलाइनक्रियाः पुनः केन्द्रे स्थापयन्तु।

अन्ततः एतत् अवगन्तव्यं यत् प्रौद्योगिकी मनुष्यस्य सेविका भवतु, स्वामिनी न। एष एव सन्तुलनस्य मूलमन्त्रः। यदि अद्य वयं स्वयुवानः स्क्रीनपटलात् ऊर्ध्वम् उत्थाप्य संवेदनशीलान् अनुशासितान् उत्तरदायिनः च कर्तुं न शिक्षयेम, तर्हि श्वः एषा अङ्कीयसुविधा अस्मान् मानवीयशून्यतां प्रति नयितुं शक्नोति।

(लेखिका सामाजिकी कार्यकर्त्री एवं स्‍तम्‍भकारा अस्ति।)

---------------

हिन्दुस्थान समाचार