Enter your Email Address to subscribe to our newsletters

पटना, 17 जनवरीमासः (हि.स.)।
अद्य मुख्यमंत्रिणो नीतीशकुमारस्य समृद्धियात्रायाः द्वितीयो दिवसः अस्ति। यात्राक्रमेन अद्य मुख्यमंत्री पूर्वीचम्पारणं आगमिष्यति। मुख्यमंत्री चतुस्त्रिंशत्कोटिरूप्यकव्यये चत्वारिंशत् योजनानां शिलान्यासं करिष्यति। तदनन्तरं अष्टत्रिंशताधिकशतकोटिरूप्यकव्यये त्रिंशत् योजनानाम् उद्घाटनं अपि करिष्यति।
मुख्यमंत्री अत्र जनपदे सञ्चालितानां विकासकल्याणकारीयोजनानां समीक्षां करिष्यति। ततः पश्चात् सः जनसंवादं करिष्यति। मुख्यमंत्रीस्य कार्यक्रमं प्रति जिलाप्रशासनं स्वपक्षात् सर्वाः तयारीः पूर्णाः कृतवान्।
पूर्वीचम्पारणस्य जिलाधिकारी सौरभजोरवालः अवदत् यत् मुख्यमंत्रीस्य आगमनं प्रति जनपदे सर्वाः व्यवस्थाः पूर्णाः कृताः सन्ति। मुख्यमंत्रीस्य समृद्धियात्राकाले अनेके कार्यक्रमाः आयोजिताः सन्ति। प्रथमं मुख्यमंत्री विराटरामायणमन्दिरं गमिष्यति, तत्र च शिवलिङ्गस्य स्थापनाकर्मणि भागं ग्रहीष्यति। तदनन्तरं तस्मात् स्थानात् सः मोतिहारी पुलिसलाइनं गमिष्यति।
जनपदे प्रगतियात्राकाले घोषितानां योजनानां समीक्षां निरीक्षणं च करिष्यति। अस्मिन् अवसरॆ मुख्यमंत्रीना सह उपमुख्यमंत्री सम्राटचौधरीः, विजयकुमारसिन्हा च, तथा सांसदाः विधायकाः जनप्रतिनिधयश्च उपस्थिताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार