माैनी अमावस्यायां बिहारस्य सर्वेषु पवित्र घट्टेषु जनैः आस्थावगाहनं कृतम्
पटना, 18 जनवरीमासः (हि.स.)। मौनी-अमावस्यायां बिहारराज्ये राजधानी पटना स्थितेषु सर्वेषु गङ्गाघाटेषु तथा राज्यव्यापिनीषु कोसी बाघमती नारायणी इत्यादीनां पवित्रतीरेषु अपारसंख्यया श्रद्धालवः आस्थाश्रद्धाभ्यां सह स्नानं कृतवन्तः। बक्सरनगरे रामरेखा इत्यस्
सांकेतिक फोटो—मौनी अमावस्या


पटना, 18 जनवरीमासः (हि.स.)। मौनी-अमावस्यायां बिहारराज्ये राजधानी पटना स्थितेषु सर्वेषु गङ्गाघाटेषु तथा राज्यव्यापिनीषु कोसी बाघमती नारायणी इत्यादीनां पवित्रतीरेषु अपारसंख्यया श्रद्धालवः आस्थाश्रद्धाभ्यां सह स्नानं कृतवन्तः। बक्सरनगरे रामरेखा इत्यस्मिन् तथा अन्येषु प्रमुखघाटेषु अपि लक्षशः श्रद्धालवः आस्थास्नानं कृतवन्तः। स्नानानन्तरं तैः पूजापाठः दानपुण्यकर्म च आचरितम्।

बक्सरस्य रामरेखा घाटे बक्सरनगरात् अतिरिक्तं शाहाबाद गोपालगञ्ज सिवान इत्येतेभ्यः अपि श्रद्धालवः आगत्य गङ्गास्नानं कुर्वन्ति। धार्मिकविश्वासानुसारं अस्मिन् दिने सूर्योदयात् पूर्वं मौनं धारयित्वा गङ्गास्नानं कर्तुं तिल आमलकादीनां दानं कर्तुं पितृणां तर्पणं च कर्तुं विशेषं महत्त्वं विद्यते। एतादृशं मन्यते यत् अस्मिन् दिने गङ्गास्नानेन सर्वेषां पापानां नाशः भवति पुण्यलाभश्च जायते। स्नानदानपुण्यानन्तरमेव श्रद्धालवः मौनव्रतं समाचरन्ति।

पश्चिमचम्पारणजनपदे भारतनेपालसीम्नि स्थिते वाल्मीकिनगरे नारायणी गण्डक इति नदीषु स्नानस्य विशेषं महत्त्वं विद्यते। इति विश्वासः अस्ति यत् माघामावस्यायां स्नानेन पापनाशः भवति मोक्षप्राप्तिश्च जायते। स्नानमेळयोः सुरक्षायै वाल्मीकिनगरपुलिसबलेन सह सशस्त्रसीमाबलस्य अपि तैनाती कृता। शनिवासररात्रौ बगहा जनपदस्य पुलिसअधीक्षकः रामानन्दकौशलः अपि वाल्मीकिनगरं आगत्य सुरक्षाव्यवस्थायाः निरीक्षणं कृतवान्।

प्रतिवर्षं माघामावस्यायां उत्तरप्रदेशस्य गोरखपुर महराजगञ्ज कुशीनगर इत्यादिजनपदेभ्यः तथा बिहारराज्यस्य अनेकजनपदेभ्यः नेपालदेशात् च श्रद्धालवः पवित्रस्नानार्थं वाल्मीकिनगरं आगच्छन्ति। माघामावस्यायां वाल्मीकिनगरे सीमावर्ती त्रिवेणीप्रदेशे च मेला अपि आयोज्यते। तत्र बाह्यप्रदेशेभ्यः आगतैः वणिज्भिः शृङ्गारप्रसाधनानि दैनिकावश्यकवस्तूनि पात्राणि च विक्रयार्थं स्थापितानि भवन्ति, यत्र श्रद्धालवः क्रयविक्रयं कुर्वन्ति।---------------

हिन्दुस्थान समाचार