Enter your Email Address to subscribe to our newsletters

दिग्गजः संगीतकारः ए आर रहमानः बॉलीवुडे कथिते “सांप्रदायिके भेदभावे” विषये स्वस्य हालिया वक्तव्येन जातस्य विवादस्य मध्ये अधुना मौनं भङ्क्त्वा स्वपक्षं व्यक्तवान्। सामाजिकमाध्यमेषु चलचित्रोद्योगे च उत्पन्नायाः तीव्रायाः चर्चायाः अनन्तरं रहमानः स्पष्टीकृतवान् यत् तस्य वचनानि दूषितरीत्या व्याख्यातानि अभवन्, तस्य उद्देश्यः कदापि कस्यचित् भावनानां आघातं कर्तुं न वा द्वेषं प्रसारयितुं आसीत्।
ऑस्करपुरस्कारविजेता संगीतकारः समीपकाले तेन वक्तव्येन चर्चायां स्थितः, यत्र सः उक्तवान् यत् गतसप्ताष्टवर्षेषु तस्मै बॉलीवुडतः कार्यप्रस्तावाः न्यूनाः प्राप्ताः, यस्य कारणं किञ्चन “सांप्रदायिकं” भवितुं शक्नोति। अस्य टिप्पणीअनन्तरं सामाजिकमाध्यमेषु विवादः तीव्रः अभवत्, जावेद अख्तरादिभिः बहुभिः दिग्गजैः स्वस्व प्रतिक्रियाः व्यक्ताः।
विवादे वर्धमाने रहमानः इन्स्टाग्राम् माध्यमेन एकं दृश्यं प्रकाशितवान्, यत्र सः स्वमतं निरूपितवान्। तस्मिन् दृश्ये सः अवदत् “मम अभिप्रायः कदापि कस्यचित् पीडां कर्तुं न आसीत्, न च द्वेषं प्रसारयितुम्। अहं संगीतकारः अस्मि, मम कर्म जनान् संयोजयितुं भवति, न तु विभाजयितुम्। मया केवलं स्वानुभवाः साझीकृताः, किन्तु ते भ्रान्त्या गृहीताः।” अपि च सः उक्तवान् यत् तस्य सम्पूर्णं जीवनं करियरं च एकतायाः, सम्मानस्य, सांस्कृतिकसौहार्दस्य च पक्षे एव स्थितम्।
रहमानः स्वस्य हालियासिद्धीनां उल्लेखं कृत्वा अवदत् यत् तस्य ध्यानं सदा कलायां देशस्य गौरवस्य च प्रवर्धने एव स्थितम्। सः वेव समिट् मध्ये “जला” इति प्रस्तुतेः, नागालैण्डस्य युवा संगीतकारैः सह कार्यस्य, बहुसांस्कृतिकस्य आभासीसङ्गीतमण्डलस्य “सीक्रेट माउंटेन” इत्यस्य च उल्लेखं कृतवान्। अपि च हान्स जिमरः सह “रामायण” चलचित्राय संगीतनिर्माणं स्वस्य गर्वस्य विषयः इति सः उक्तवान्।
स्वसन्देशस्य अन्ते रहमानः भारतदेशाय कृतज्ञतां दर्शयन् अवदत् यत् सः तादृशस्य संगीतस्य प्रति प्रतिबद्धः अस्ति, यत् अतीतस्य सम्मानं करोति, वर्तमानस्य उत्सवं जनयति, भविष्यं च प्रेरयति। सः स्पष्टं कृतवान् यत् तस्य कृते संगीतं सदा देशस्य एकतायाः सांस्कृतिकपरम्परायाः च प्रतीकं भविष्यति, न तु कस्यचित् प्रकारस्य कटुतायाः वा विभाजनस्य।
हिन्दुस्थान समाचार