मुख्यमंत्री पंजाब केसरी इत्यस्य पूर्व प्रधान संपादकाय अश्विनी कुमार चोपड़ावर्याय अददात् श्रद्धांजलिम्
नवदिल्ली, 18 जनवरीमासः (हि.स.)। दिल्ली-प्रदेशस्य मुख्यमन्त्री रेखा गुप्ता रविवासरे पंजाब-केसरी-पत्रिकायाः पूर्वप्रधानसम्पादकस्य तथा भारतीय-जनता-पक्षस्य पूर्वसांसदस्य अश्विनी-कुमार-चोपड़ा (मिन्ना) महोदयस्य पुण्यतिथौ पंजाब-केसरी-भवनं गत्वा भावपूर्णा
पंजाब केसरी भवन में पंजाब केसरी के पूर्व प्रधान संपादक अश्विनी कुमार चोपड़ा को श्रद्धांजलि देती मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 18 जनवरीमासः (हि.स.)।

दिल्ली-प्रदेशस्य मुख्यमन्त्री रेखा गुप्ता रविवासरे पंजाब-केसरी-पत्रिकायाः पूर्वप्रधानसम्पादकस्य तथा भारतीय-जनता-पक्षस्य पूर्वसांसदस्य अश्विनी-कुमार-चोपड़ा (मिन्ना) महोदयस्य पुण्यतिथौ पंजाब-केसरी-भवनं गत्वा भावपूर्णां श्रद्धाञ्जलिं अर्पितवती।

मुख्यमन्त्री महोदया सामाजिक-सञ्जाल-माध्यमे ‘एक्स’ इत्यस्मिन् लेखं प्रकाशयन्ती अवदत् यत् मिन्ना-महोदयः सच्चः राष्ट्रवादी, निर्भीकः, प्रतिबद्धः पत्रकारः च आसीत्, तथा समाजसेवायै पूर्णतः समर्पितः व्यक्तित्वं धारयति स्म।

सा अवदत् यत् तेन पत्रकारिता केवलं सूचनाप्रदानस्य साधनं न मन्यते स्म, अपि तु राष्ट्रहितस्य, जनचेतनायाः तथा मूल्यबोधस्य सशक्तं स्वरूपं निर्मितम्।

मुख्यमन्त्री अवदत् यत् पत्रकारिता-जगति तस्य योगदानं सदा स्मरणीयं भविष्यति।

---------------

हिन्दुस्थान समाचार