Enter your Email Address to subscribe to our newsletters

लखनऊ, 18 जनवरीमासः (हि.स.)।
दिल्लीतः बागडोगरा (पश्चिम-बंगाल) प्रति गच्छन्त्याः इण्डिगो-विमानसेवायाः विमानस्य अन्तः रविवासरस्य प्रातःकाले बमः अस्ति इति सूचनया विमानतले महान् कोलाहलः उत्पन्नः। ततः विमानं लखनऊ-विमानतले आपत्कालीन-अवतरणाय निर्देशितम्। विमानात् यात्रिकाः सुरक्षिततया अवतारिताः, बम-निरोधक-दलैः अन्यैः च सुरक्षाकर्मिभिः गहनं परीक्षणं क्रियते।
सूचनानुसारं प्रातः 08:46 वादने वायुमार्ग-नियन्त्रण-कक्षे (एटीसी) दिल्लीतः बागडोगरा प्रति गच्छन्त्याः इण्डिगो-विमानसेवायाः 6ई–6650 सङ्ख्यायाः विमानस्य अन्तः बमः अस्ति इति सूचना प्राप्ता। तदनन्तरं सर्वेषां सुरक्षा-मानकानां पालनं कृत्वा विमानस्य लखनऊ-विमानतले 09:17 वादने सुरक्षितम् आपत्कालीन-अवतरणं कारितम्। ततः यात्रिकान् अवतार्य विमानं शीघ्रमेव पृथक्-मार्गे (आइसोलेशन-वे) स्थापयितम्।
प्रारम्भिक-परीक्षणे ज्ञातं यत् विमानस्य स्नानगृहे टिशू-पत्रे हस्तलिखितः एकः सन्देशः प्राप्तः, यस्मिन् “विमाने बमः अस्ति” इति लिखितम् आसीत्। एतां सूचनां प्राप्त्वा तत्क्षणमेव विमानं लखनऊ प्रति परिवर्तितम्। अस्मिन् विमानयाने 222 यात्रिकाः, 8 शिशवः (इन्फेन्ट्स), 2 वैमानिकौ तथा 5 सेवाकर्मी आसन्। घटनास्थले बम-निरोधक-दलम्, अग्निशमन-दलम्, चिकित्सकीय-दलम्, सुरक्षा-एजेंसयः तथा विमानतल-प्रशासनं संयुक्तरूपेण परीक्षण-अभियानं प्रवर्तितवन्तः। तदनन्तरं विमानतले सुरक्षा-व्यवस्था अधिकं कटीकृता अभवत्।
सरोजनीनगर-थानस्य प्रभारी अवदत् यत् सूचनां प्राप्त्वा सर्वाः मानक-सुरक्षा-प्रक्रियाः पालनं कृताः। विमानस्य सुरक्षितम् अवतरणं कृत्वा यात्रिकाः तथा सेवाकर्मिणः पूर्णतः सुरक्षिताः निष्कासिताः। बम-निरोधक-दलैः अन्यैः च सम्बद्ध-एजेंसिभिः गहनं परीक्षणं क्रियते। विधि-व्यवस्थायाः स्थिति सामान्यं नियन्त्रणाधीनं च अस्ति। प्रकरणस्य विस्तृता जाँच प्रवर्तते, आवश्यकाः च कार्यवाह्याः क्रियन्ते। पुलिस-विभागः तथा सम्बद्ध-संस्थानां सम्पूर्ण-घटनाक्रमं निरन्तरं निरीक्षन्ते। अग्रिम-जाँचानुसारं विस्तृता सूचना प्रकाशयिष्यते।
---------------
हिन्दुस्थान समाचार