Enter your Email Address to subscribe to our newsletters

कालियाबोरः (असमः), 18 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे अवदत् यत् अद्यापि देशस्य मतदाता सुशासनं विकासं च इच्छति, तथा विकासेन सह विरासत् संरक्षणे सममेव ध्यानं ददाति या सर्वकार सा एव तस्य प्रियाऽस्ति। अत एव सः भारतीयजनतापक्षम् उपरि विश्वासं करोति। नवीनैः निर्वाचनफलैः एषः अपि स्पष्टः सन्देशः प्राप्तः यत् देशः कांग्रेसपक्षस्य नकारात्मकां राजनीतिं निरन्तरं नकारयति। यस्मिन् मुम्बईनगरे कांग्रेसस्य जन्म अभवत्, तत्रैव सा अद्य चतुर्थे पञ्चमे वा स्थाने सीमिता जाता अस्ति। यस्मिन् महाराष्ट्रप्रदेशे कांग्रेसः दीर्घकालं शासनं कृतवती, तत्र सा प्रायः पूर्णतया संकुचिता अस्ति। कांग्रेसः देशस्य विश्वासं नष्टवती यतः तस्याः समीपे विकासस्य कोऽपि स्पष्टः कार्यक्रमः नास्ति।
प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे द्विदिवसीयस्य असमप्रवासस्य अवसरॆ नागांवजनपदस्य कालियाबोरप्रदेशे ६९५० कोटिरूप्यकाधिकमूल्यस्य काजीरंगा एलिवेटेड कोरिडोर परियोजनायाः आधारशिलां न्यस्य, द्वौ अमृत भारत एक्सप्रेस रेलयानौ हरिझण्डया प्रेषितवान्। अस्मिन् कार्यक्रमे असमराज्यस्य मुख्यमन्त्री हिमन्तविश्वशर्मा, केन्द्रीयः पोतनौवहनमन्त्री सर्बानन्दसोनोवालः, केन्द्रीयविदेशराज्यमन्त्री पवित्रमार्गेरिटा, असमसरकारस्य मन्त्री अतुलबोरा, केशवमहान्तः च बहवः गणमान्याः उपस्थिताः आसन्।
सभां सम्बोधयन् प्रधानमन्त्री अवदत् यत् काजीरंगाम् आगत्य तस्य पूर्वयात्रायाः स्मृतिः पुनर्जीविता। द्वौ वर्षौ पूर्वं काजीरंगायां यानि क्षणानि तेन व्यतीतानि तस्य जीवनस्य अतीव विशेषानुभवेषु गणितानि सन्ति। तदा तेन काजीरंगा राष्ट्रीय उद्याने रात्रिनिवासः कृतः, प्रातःकाले च हस्तिसफारीसमये क्षेत्रस्य सौन्दर्यं समीपतः अनुभूतम्। असमं आगत्य तस्मै सदा विशेषा हर्षानुभूतिः भवति।
प्रधानमन्त्री बोडोसमुदायस्य कन्याभिः प्रस्तुतस्य बागुरुम्बा नृत्यस्य प्रशंसां कृत्वा अवदत् यत् दशसहस्राधिककलाकारैः कृता एषा प्रस्तुतिर्नूतनं कीर्तिमानं स्थापितवती। बागुरुम्बा नृत्यस्य अनुभूतिः नेत्राभ्यां हृदयं प्रति साक्षात् अवतरन्तीव आसीत्। असमकलाकाराणां परिश्रमः, पूर्वतैयारी च तालमेलः च वास्तवमेव अद्भुतः आसीत्। सः सर्वान् कलाकारान् अभिनन्दितवान् तथा देशव्यापिनां सामाजिकमाध्यमप्रभावकानामपि प्रशंसां कृतवान्, येषां प्रयत्नैः बोडोपरम्परायाः एतन्नृत्यं सामाजिकमाध्यमेषु व्यापकं प्रसिद्धं जातम्।
प्रधानमन्त्री अवदत् यत् दूरदर्शने प्रभृत्येव प्रातःकालात् गतराात्रेः कार्यक्रमाणां प्रसारणं दृश्यते, येन कार्यक्रमस्य भव्यता सहजमेव ज्ञायते। गतवर्षे सः झुमरईमहोत्सवे सम्मिलितः आसीत्, अस्मिन् वर्षे तु माघबिहू पर्वणि आगमनस्य सौभाग्यं लब्धवान्। एकमासपूर्वं सः विकासपरियोजनानां कृते गुवाहाटीं आगतः, यत्र लोकप्रियस्य गोपीनाथबोरदोलोई अन्तरराष्ट्रीयविमानस्थानकस्य विस्तारणस्य अन्तर्गतं नवटर्मिनलभवनस्य उद्घाटनं कृतं, नामरूपे च अमोनिया यूरिया संयन्त्रस्य आधारशिला न्यस्ता। एते सर्वे अवसराः भाजपाशासनस्य ‘विकासः अपि विरासत् अपि’ इति मन्त्रं अधिकं दृढं कृतवन्तः।
प्रधानमन्त्री अवदत् यत् असमस्य इतिहासे कालियाबोरस्य अत्यन्तं महत्त्वपूर्णं स्थानम् अस्ति। एषः काजीरंगा राष्ट्रीय उद्यानस्य प्रवेशद्वारं अस्ति तथा च ऊर्ध्वअसमप्रदेशस्य सम्पर्कव्यवस्थायाः केन्द्रम्। अस्मिन्नेव प्रदेशे महायोद्धा लचित् बोरफुकनः मुगलआक्रान्तॄन् निष्कासयितुं रणनीतिं निर्मितवान्, तस्य नेतृत्वे च असमवासिनः साहसेन एकतया दृढसंकल्पेन च मुगलसेनां पराजितवन्तः। एषा केवलं सैन्यविजयः न आसीत्, अपि तु असमस्य स्वाभिमानस्य आत्मविश्वासस्य च जयघोषः आसीत्। अहोमशासनकालादारभ्य कालियाबोरस्य रणनीतिकमहत्त्वं विद्यमानम् अस्ति, इदानीं च भाजपाशासने सः प्रदेशः विकासस्य प्रमुखकेन्द्रं भवतीति दृष्ट्वा सः हृष्टः।
प्रधानमन्त्री अवदत् यत् अद्य भारतीयजनतापक्षः सम्पूर्णे देशे जनानां प्रथमवरणीयः पक्षः अभवत्, गतैकदीर्घवर्षाभ्यन्तरे च देशस्य विश्वासः निरन्तरं वर्धितः। समीपे बिहारराज्ये सम्पन्नेषु निर्वाचनषु विंशतिवर्षाणामनन्तरमपि जनतया भाजपायै अभूतपूर्वं मतसमर्थनं बह्वीः आसनानि च दत्तानि। महाराष्ट्रस्य प्रमुखनगरेषु सम्पन्नेषु महापौर पार्षदनिर्वाचनषु मुम्बईनगरे, यत् विश्वस्य बृहत्तमेषु नगरनिगमेषु एकम् अस्ति, प्रथमवारं भाजपायै जनादेशः प्राप्तः। एषा विजयः मुम्बईनगरे जाता, किन्तु तस्य उत्सवः काजीरंगायां आचर्यते। महाराष्ट्रस्य अधिकांशनगरजनता भाजपायै सेवार्थं अवसरं दत्तवती अस्ति। दक्षिणे केरले अपि जनतया ऐतिहासिकं समर्थनं प्रदत्तं, यत्र प्रथमवारं भाजपाया महापौरः अभवत्, तिरुवनन्तपुरमे च पक्षः सेवां करोति। अद्यतननिर्वाचनफलानां जनादेशः सर्वथा स्पष्टः अस्ति।
प्रधानमन्त्री अवदत् यत् उत्तरपूर्वप्रदेशः अद्य विकासस्य सीमायां नास्ति। उत्तरपूर्वः अद्य न दूरः, अपि तु हृदयस्य समीपे दिल्ल्याः समीपे च अस्ति। दीर्घकालं यावत् एषा धारणा आसीत् यत् प्रकृतिः प्रगतिश्च परस्परविरोधिन्यौ स्तः, किन्तु अद्य भारतं विश्वाय दर्शयति यत् उभे सह एव अग्रे गन्तुं शक्नुतः। यदा प्रकृतिः संरक्षिता भवति तदा तया सह अवसराः अपि जायन्ते।
प्रधानमन्त्री अवदत् यत् गतवर्षेषु काजीरंगायां पर्यटकानां संख्या निरन्तरं वर्धिता अस्ति, येन गृहवाससेवाभिः मार्गदर्शकसेवाभिः परिवहनेन हस्तशिल्पेन लघुव्यवसायैः च स्थानीययुवानां कृते नवीनाः आयसाधनाः उत्पन्नाः। काजीरंगा केवलं राष्ट्रिय उद्यानं नास्ति, अपि तु असमस्य आत्मा अस्ति, भारतस्य जैवविविधतायाः अमूल्यरत्नं च। युनेस्को संस्थया अस्य विश्वधरोहरास्थलत्वं प्रदत्तम्।
प्रधानमन्त्री अवदत् यत् बाढसमये वन्यजीवानां संरक्षणार्थं कालियाबोरात् नुमालीगढ़पर्यन्तं प्रायः नवतिशतकिलोमीटरदीर्घः गलियाराः सप्तसहस्रकोटिरूप्यकनिवेशेन निर्मीयते, यस्मिन् पञ्चत्रिंशत्किलोमीटरदीर्घः उन्नतखण्डः अपि समाविष्टः अस्ति, येन वाहनानि उपरि गच्छेयुः अधः च पशूनां गमनं न बाध्येत। कदाचित् काजीरंगायां एकशृङ्गगण्डकानां अवैधशिकारः असमस्य महती चिन्ता आसीत्। २०१३ १४ संवत्सरेषु बहवः गण्डकाः हताः आसन्। भाजपाशासनं तत् निरोद्धुं संकल्पं कृत्वा सुरक्षाव्यवस्थां सुदृढां कृतवती, वनविभागाय च अतिरिक्तसाधनानि दत्तवती। वनदुर्गा पहलया महिलानां सहभागिता वर्धिता, यस्य परिणामेन २०२५ संवत्सरपर्यन्तं गण्डकानां अवैधशिकारस्य काऽपि घटना न अभिलेखिता।
प्रधानमन्त्री अवदत् यत् कांग्रेसशासने असमराज्याय अत्यल्पं वित्तीयसमर्थनं प्राप्यते स्म, उत्तरपूर्वस्य च मुख्यपीडा दूरी एव आसीत्। दशकैः यावत् अत्रत्यजनाः अनुभवितवन्तः यत् देशस्य विकासः अन्यत्र भवति, येन विश्वासः अपि क्षीणः अभवत्। भाजपाशासनं मार्गरेलविमानजलमार्गैः असमं संयोजितवती, यत् कांग्रेस कदापि न चिन्तितवती। कांग्रेसकाले असमाय प्रायः द्विसहस्रकोटिरूप्यकस्य रेलवित्तीयप्रावधानं आसीत्, यत् भाजपाशासने प्रायः दशसहस्रकोटिरूप्यकपर्यन्तं वर्धितम्।
प्रधानमन्त्री अवदत् यत् असमः सम्प्रति स्वपरिचयसंस्कृतिसंरक्षणस्य महतीं चुनौतीं सम्मुखीकरोति। अस्मिन् सन्दर्भे असमे भाजपाशासनं यथा घुसपैठिनां विरोधं करोति, वनान् धार्मिकसांस्कृतिकऐतिहासिकधरोहराश्च अतिक्रमणात् मुक्तं करोति, तस्य व्यापकः प्रशंसाभावः दृश्यते। कांग्रेसः केवलं सत्तायै मतलाभाय च असमभूमिं घुसपैठिभ्यः समर्पितवती। बिहारराज्ये अपि कांग्रेसः तस्य सहयोगिनश्च घुसपैठिनां समर्थनार्थं क्रियाकलापान् अकुर्वन्, किन्तु जनतया तान् कठोरः प्रत्युत्तरः दत्तः। इदानीं असमजनताऽपि तथैव करिष्यति।
अस्मिन् अवसरे प्रधानमन्त्री सभायां उपस्थितैः अनेकैः युवाभिः सह संवादं कृतवान्, ये तस्य चित्राणि हस्तेषु धारयन्तः स्थिताः आसन्। प्रधानमन्त्री तान् अवदत् यत् ते चित्राणि सुरक्षाकर्मिभ्यः समर्पयेयुः, चित्रपृष्ठे च स्वनामपत्तनं लिखेयुः, येन सः स्वयमेव पत्रं प्रेष्य तेषां प्रति कृतज्ञतां व्यक्तुं शक्नुयात्।
--------
हिन्दुस्थान समाचार / अंशु गुप्ता