Enter your Email Address to subscribe to our newsletters

काठमांडूः, 18 जनवरीमासः (हि.स.)।
काठमाण्डू महानगरपालिकायाः महापौरः बालेन्द्रः (बालेन) शाहः स्वपदात् त्यागपत्रं दत्तवान्। रविवासरे दिवसभरं त्यागपत्रं न दास्यति इति ये अनुमानाः प्रचलिताः आसन्, तान् विरामयन् सः स्वस्य त्यागपत्रं उपमहापौरायै सुनिता डंगोलायै समर्पितवान्।स्वत्यागपत्रे शाहः लिखितवान् यत् आगामिनि प्रतिनिधिसभानिर्वाचने राष्ट्रिय स्वतन्त्रपक्षस्य प्रत्याशीरूपेण नामाङ्कनं प्राप्तवान्, तस्मात् कारणात् सः काठमाण्डू महानगरपालिकायाः महापौरपदात् त्यागपत्रं दत्तवान्। पत्रे अपि उक्तं यत् अद्य आरभ्य प्रभावी एतत् त्यागपत्रं नेपालदेशस्य संविधानस्य २०७२, स्थानीय सरकारसञ्चालनऐनस्य २०७४, तथा काठमाण्डू महानगरपालिकायाः प्रचलितानां कानूनीप्रावधानानां च अनुरूपं प्रदत्तम् अस्ति।
शाहः स्वकार्यकाले नगरस्य तत्र निवसतां नागरिकानां च कल्याणार्थं कृतकार्याणां उल्लेखं कृत्वा, आगामिनि नेतृत्वे उपमहापौरां डंगोलां प्रति शुभाशयांश्च प्रकटितवान्।
एतस्मात् पूर्वं बालेनः अद्य त्यागपत्रं न दास्यति इति कथ्यते स्म। नामाङ्कनप्रक्रियायाः स्थगनसम्भावनायाः चर्चायां प्रचलितायां, तस्य सहयोगिणा अपि उक्तं यत् सः तावद् स्वपदात् त्यागपत्रं न दास्यति इति।
---------------
हिन्दुस्थान समाचार