विश्वप्रसिद्धं सङ्गमे शुभमुहूर्ते अभवत् मौनब्रतेन सह स्नानम्
प्रयागराजः (उत्तर प्रदेश), 18 जनवरीमासः (हि.स.)। विश्वप्रसिद्धं प्रयागराजः माघमेलापकस्य तृतीयमहत्वपूर्णं स्नानपर्वं मौनी-अमावस्यायाः शुभमुहूर्ते मौन ब्रतस्य स्नानम् आरब्धम् । संगम-तटे आगच्छत्सु सर्वेषु सप्तसु मार्गेषु श्रद्धालूनां निरन्तरः प्रवाहः
प्रयागराज पुलिस आयुक्त जोगेंद्र कुमार सिंह श्रद्धालुओं से अपील करने का छाया चित्र


शुभमुहूर्त में मौन ब्रत के साथ शुरू हुए स्नान का छाया चित्र


प्रयागराजः (उत्तर प्रदेश), 18 जनवरीमासः (हि.स.)। विश्वप्रसिद्धं प्रयागराजः माघमेलापकस्य तृतीयमहत्वपूर्णं स्नानपर्वं मौनी-अमावस्यायाः शुभमुहूर्ते मौन ब्रतस्य स्नानम् आरब्धम् । संगम-तटे आगच्छत्सु सर्वेषु सप्तसु मार्गेषु श्रद्धालूनां निरन्तरः प्रवाहः दृश्यते। सुरक्षायाः दृष्ट्या पुलिस-प्रशासनिक-अधिकारीभिः सततं सीसीटीवी-यन्त्रैः निरीक्षणं क्रियते।

मौनी-अमावस्या-पर्वणि पतित-पावन्योः मातृगङ्गा-यमुना-नद्योः अन्तःसलीलायाः च पवित्रे संगमे ब्रह्म-मुहूर्तादेव मौन-व्रतेन सह श्रद्धालवः संगमे श्रद्धा-स्नानं कृत्वा पुण्य-प्राप्त्यर्थं पूजन-आराधनं कुर्वन्ति।

श्रद्धालूनां सम्मर्द्धः संगमस्य सर्वेभ्यः घाटेभ्यः स्नानोपरान्तं निष्कासयितुं जल-पुलिस-सेनानीनः तथा पुलिस-विभागीय-अधिकारीणः निरन्तरं ध्वनिवर्धक-यन्त्रस्य माध्यमेन अपसरणाय आवाहनं कुर्वन्ति। सुरक्षायाः दृष्ट्या दृढाः व्यवस्थाः कृताः सन्ति।

अस्मिन् पवित्रे अवसरे प्रयागराज-पुलिस-आयुक्तः जोगेन्दर्-कुमार्-सिंहः, मण्डलायुक्ता सौम्या-अग्रवाल्, प्रयागराज-जिलाधिकारी मनीष्-कुमार्-वर्मा, माघ-मेला-पुलिस-अधीक्षकः नीरज्-कुमार्-पाण्डेयः इत्यादयः सर्वे पुलिस-प्रशासनिक-अधिकारीणः निरन्तरं सीसीटीवी-यन्त्रैः निरीक्षणं कुर्वन्ति तथा पुलिस-कर्मभ्यः आवश्यकानि दिशानिर्देशान् ददति।

---------------

हिन्दुस्थान समाचार