प्रयागराज माघ मेलायां श्रद्धालुषु उदग्रविमानेन पुष्पवर्षा
प्रयागराजः, 18 जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य प्रयागराजे आयोजिते माघमेलापके आगच्छतां श्रद्धालूनां स्वागतार्थम् उदग्रविमानात् पुष्पवर्षा कृता। पुष्पवर्षणसमये गङ्गामातुः जयघोषैः समस्तं नभः प्रतिध्वनितम्। मौनीअमावस्यायाः पुण्यलाभार्थं श्रद्धालूना
श्रद्धालुओं पर हेलीकॉप्टर से पुष्प वर्षा करने का छाया चित्र


प्रयागराजः, 18 जनवरीमासः (हि.स.)।

उत्तरप्रदेशस्य प्रयागराजे आयोजिते माघमेलापके आगच्छतां श्रद्धालूनां स्वागतार्थम् उदग्रविमानात् पुष्पवर्षा कृता। पुष्पवर्षणसमये गङ्गामातुः जयघोषैः समस्तं नभः प्रतिध्वनितम्। मौनीअमावस्यायाः पुण्यलाभार्थं श्रद्धालूनां आगमनं निरन्तरं प्रवर्तते।

माघमेलस्य तृतीयं महत्त्वपूर्णं स्नानपर्व मौनीअमावस्या इति अवसरः अस्ति। अस्मिन् दिने स्नानार्थं संगमतटे श्रद्धालूनां महती जनसंकुलता दृष्टिगोचरा अभवत्।

माघमेला प्रशासनस्य परतया श्रद्धालूनां स्वागतं कर्तुं हेलीकॉप्टरयानात् पुष्पवर्षा विधाय अभिनन्दनं कृतम्। एषा सूचना माघमेला पुलिस अधीक्षकः नीरजकुमारपाण्डेयः इति तेन प्रदत्ता। ‌‌

--------------

हिन्दुस्थान समाचार