प्रधानमंत्री मोदी असमे द्वाभ्याम् अमृतभारतएक्सप्रेसरेलयानाभ्यां दर्शितो हरितध्वजः
- कालियाबोरे 6,950 कोटि रुप्यकेभ्यः आधिक्यव्ययेन काजीरंगा एलिवेटेड कॉरिडोर परियोजनायाः स्थापिता आधारशिला कालियाबोरम्(असमः), 18 जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीय असमप्रदेशदौरे रविवासरे नागांवजनपदे कालियाबोरस्थले ६९५० कोट
कार्यक्रम में असम के मुख्यमंत्री हिमंत बिस्वा सरमा, केंद्रीय पोत परिवहन मंत्री सर्बानंद सोनोवाल के साथ प्रधानमंत्री मोदी


- कालियाबोरे 6,950 कोटि रुप्यकेभ्यः आधिक्यव्ययेन काजीरंगा एलिवेटेड कॉरिडोर परियोजनायाः स्थापिता आधारशिला

कालियाबोरम्(असमः), 18 जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीय असमप्रदेशदौरे रविवासरे नागांवजनपदे कालियाबोरस्थले ६९५० कोटिरूप्यकाधिकव्ययेन निर्मीयमाणस्य काजीरङ्गा एलिवेटेड कॉरिडोर योजनायाः आधारशिलां न्यस्य, द्वे अमृतभारत एक्सप्रेस रेलयानसेवे हरीझण्डया प्रवर्तितवान्।

काजीरङ्गा एलिवेटेड कॉरिडोर योजना राष्ट्रीयराजमार्ग ७१५ अन्तर्गत कालियाबोर नुमालीगढ़ खण्डस्य चतुर्लेनीविस्तारसम्बद्धा अस्ति। एषा योजना पर्यावरणसंरक्षणं मनसि कृत्वा विनिर्मिता, यस्याः उद्देश्यं क्षेत्रीयसड़कसम्पर्कस्य सुदृढीकरणं काजीरङ्गा राष्ट्रीयउद्यानस्य जैवविविधतासंरक्षणं च अस्ति।

पूर्वमेव सामाजिकमाध्यममञ्चे एक्स इत्यत्र प्रकाशिते सन्देशे प्रधानमन्त्री कालियाबोरस्थे महत्त्वपूर्णविकासकार्याणां भूमिपूजनविषये स्वीयामुत्सुकतां व्यक्तवान्। तेनोक्तं यत् काजीरङ्गामार्गेण गच्छन् ३५ किलोमीटरपरिमाणः एलिवेटेड कॉरिडोर विशेषतः वर्षाकाले वन्यजीवानां संरक्षणे सहायकः भविष्यति तथा सम्पर्कव्यवस्थायाः अपि सुधारं करिष्यति।

प्रायः ८६ किलोमीटरदीर्घायां अस्यां योजनायां ३५ किलोमीटरपरिमाणः एलिवेटेड वाइल्डलाइफ कॉरिडोर अन्तर्भवति, यः काजीरङ्गा राष्ट्रीयउद्यानप्रदेशेण गमिष्यति। अतिरिक्तं २१ किलोमीटरपरिमाणः बाईपासखण्डः विकसितः भविष्यति, विद्यमानस्य च राष्ट्रीयराजमार्ग ७१५ अन्तर्गतस्य प्रायः ३० किलोमीटरभागस्य द्विलेनीयात् चतुर्लेनीविस्तारः क्रियते।

एषः कॉरिडोर नागांव कार्बीआंगलोंग गोलाघाट इत्येतैः जनपदैः गमिष्यति, येन ऊर्ध्वअसमप्रदेशस्य विशेषतः डिब्रूगढ़ तिनसुकिया इत्येतयोः सह सड़कसम्पर्के उल्लेखनीयः सुधारः भविष्यति। योजनया वन्यजीवानां निर्बाधगमनं सुनिश्चितं भविष्यति, मानववन्यजीवसंघर्षस्य न्यूनताप्राप्तिः अपि अपेक्ष्यते। अपि च सड़कसुरक्षायाः उन्नतिः, यात्राकालस्य दुर्घटनादरस्य च न्यूनता, वर्धमानयात्रीमालवहनस्य समर्थनं च सम्भाव्यते।

योजनान्तर्गतं जाखलबन्धा बोकाखाट इत्यत्र बाईपासनिर्माणं क्रियते, येन नगरीयप्रदेशेषु यातायातदबावः न्यूनो भविष्यति तथा स्थानीयागमनं सुकरं भविष्यति।

कार्यक्रमकाले प्रधानमन्त्री गुवाहाटी कामाख्या रोहतक अमृतभारत एक्सप्रेस तथा डिब्रूगढ़ लखनऊ गोमतीनगर अमृतभारत एक्सप्रेस इत्येतयोः नवरेलसेवयोः हरीझण्डया प्रारम्भं कृतवान्। एताभिः रेलसेवाभिः पूर्वोत्तरभारतस्य उत्तरीभारतस्य च मध्ये रेलसम्पर्कः सुदृढः भविष्यति, यात्रिणां कृते सुरक्षितं सुविधाजनकं च यात्राविकल्पं उपलब्धं भविष्यति।

कार्यक्रमे असमप्रदेशस्य मुख्यमन्त्री हिमन्तबिस्वशर्मा, केन्द्रीयपोतपरिवहनमन्त्री सर्बानन्दसोनोवाल, केन्द्रीयविदेशराज्यमन्त्री पबित्रमार्गेरिटा, असमसरकारस्य मन्त्री अतुलबोरा केशवमहान्ता इत्यादयः बहवः गणमान्याः उपस्थिताः आसन्।

--------------

हिन्दुस्थान समाचार