प्रधानमन्त्री नरेन्द्र-मोदी अद्य पश्चिम-बङ्गाल-राज्ये ८३०-कोटि-रूप्यकाणां विकास-परियोजनाः राष्ट्राय समर्पयिष्यति
कोलकातानगरम्, १८ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी पश्चिम-बङ्गाल-राज्यस्य भ्रमणस्य द्वितीय-दिने अद्य हुगली-जनपदस्य सिंगूर-स्थले ८३०-कोटि-रूप्यकाणाम् अधिक-मूल्यकाः विविधाः विकास-परियोजनाः राष्ट्राय समर्पयिष्यति। अनेन सह एव सः अत्र त्रीण
भाजपा ने एक्स हैंडल पर प्रधानमंत्री नरेन्द्र मोदी के आज के कार्यक्रम को साझा किया है।


कोलकातानगरम्, १८ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी पश्चिम-बङ्गाल-राज्यस्य भ्रमणस्य द्वितीय-दिने अद्य हुगली-जनपदस्य सिंगूर-स्थले ८३०-कोटि-रूप्यकाणाम् अधिक-मूल्यकाः विविधाः विकास-परियोजनाः राष्ट्राय समर्पयिष्यति। अनेन सह एव सः अत्र त्रीणि नवानि अमृत-भारत-एक्सप्रेस-यानानि आभासीय-रूपेण हरित-ध्वजं दर्शयिष्यति।

एतानि यानानि सन्ति—(१) कोलकाता (हावड़ा)–आनन्द-विहार-टर्मिनल अमृत-भारत-एक्सप्रेस,(२) कोलकाता (सियालदह)–बनारस अमृत-भारत-एक्सप्रेस,(३) कोलकाता (संतरागाछी)–ताम्बरम् अमृत-भारत-एक्सप्रेस।

एषा सूचना आधिकारिक-विज्ञप्तौ प्रदत्ता। भारतीय-जनता-पक्षेण (भाजपा) अपि “एक्स” नामके सञ्चार-माध्यमे प्रधानमन्त्री-मोदिन: कार्यक्रमस्य संक्षिप्त-विवरणं प्रस्तुतम्।

प्रधानमन्त्री नरेन्द्र-मोदी बालागढ़-स्थले विस्तारित-बन्दरगाह-द्वार-प्रणाल्याः आधारशिलां स्थापयिष्यति। अस्यां परियोजनायां अन्तर्देशीय-जल-परिवहन-टर्मिनल (IWT) तथा एकः उपरि-सेतु-मार्गः (ओवरब्रिज) अपि अन्तर्भवतः। प्रायः ९००-एकड़-परिमिते क्षेत्रे विस्तृतं बालागढ़-स्थानम् आधुनिक-भार-वहन-प्रबन्धन-टर्मिनल-रूपेण विकसितं क्रियते। अस्य अनुमानिता क्षमता प्रतिवर्षं प्रायः २७-लक्ष-टन-परिमिता अस्ति।अस्यां परियोजनायां द्वौ विशेष-भार-वहन-घट्टौ निर्मीतयेते—एकः कंटेनर-भार-वहनाय, अपरः शुष्क-भार-वहनाय। बालागढ़-परियोजनायाः मुख्य-उद्देश्यं नगरीय-क्षेत्रेषु अतिभारित-मार्गेभ्यः गुरुभार-वहनस्य अपसारणं कृत्वा माल-निकास-कार्यक्षमतायाम् उल्लेखनीय-संशोधनकरणम् अस्ति।

अनेन कोलकाता-नगरे मार्ग-सुरक्षा वर्धिष्यते, वाहन-सम्मर्दं तथा प्रदूषणं न्यूनं भविष्यति, जनानां जीवन-स्तरे अपि परिवर्तनम् आगमिष्यति। उत्तम-बहु-माध्यम-संयोजनया तथा रसद-कार्यक्षमतया क्षेत्रीय-उद्योगाः, लघु-मध्यम-उद्यमाः (MSME) तथा कृषक-उत्पादकाः न्यून-व्ययेन विपणिं प्रति प्रवेशं प्राप्स्यन्ति।

अस्याः परियोजनायाः माध्यमेन प्रत्यक्ष-अप्रत्यक्ष-रूपेण पर्याप्त-रोजगार-सृजनस्य आशा अस्ति। प्रधानमन्त्री नरेन्द्र-मोदी शनिवासरे अपि आभासीय-रूपेण चत्वारि नवानि अमृत-भारत-एक्सप्रेस-यानानि हरित-ध्वजं दर्शितवान्। तानि यानानि सन्ति—(१) नवी-जलपाईगुड़ी–नागरकोइल अमृत-भारत-एक्सप्रेस,(२) नवी-जलपाईगुड़ी–तिरुचिरापल्ली अमृत-भारत-एक्सप्रेस,(३) अलीपुरद्वार–एस.एम.वी.टी.-बेङ्गलूरु अमृत-भारत-एक्सप्रेस,(४) अलीपुरद्वार–मुम्बई (पनवेल) अमृत-भारत-एक्सप्रेस।

हिन्दुस्थान समाचार / अंशु गुप्ता