अखिल-भारतीय-पीठासीन-अधिकारिणां ८६तमं सम्मेलनम् लखनऊ-नगरे १९ जनवरीमासे लोकसभा-अध्यक्षेण उद्घाटनं करिष्यते
उत्तरप्रदेशस्य आतिथ्ये लखनऊ-नगरस्य विधान-भवने सम्मेलनस्य आयोजनम् राज्यपालः आनन्दी-बेन-पटेल: समापनं करिष्यति लखनऊनगरम्, १८ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊ-नगरे अखिल-भारतीय-पीठासीन-अधिकारिणां ८६तमं सम्मेलनं तथा भारतस्य विधानसभानां वि
उत्तर प्रदेश विधानसभा


उत्तरप्रदेशस्य आतिथ्ये लखनऊ-नगरस्य विधान-भवने सम्मेलनस्य आयोजनम्

राज्यपालः आनन्दी-बेन-पटेल: समापनं करिष्यति

लखनऊनगरम्, १८ जनवरीमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊ-नगरे अखिल-भारतीय-पीठासीन-अधिकारिणां ८६तमं सम्मेलनं तथा भारतस्य विधानसभानां विधानपरिषदां च सचिवानां ६२तमं सम्मेलनं १९ तः २३ जनवरीमास-पर्यन्तम् आयोज्यते। अस्य सम्मेलनस्य उद्घाटनं लोकसभा-अध्यक्षः ओम-बिरला करिष्यति, समापनं च राज्यपालः आनन्दी-बेन-पटेल: करिष्यति।

सम्मेलनस्य तृतीये दिने आमन्त्रितातिथयः अयोध्या-नगरे श्रीरामलला-मन्दिर-दर्शनं करिष्यन्ति।

उत्तरप्रदेश-विधानमण्डलस्य आतिथ्ये आयोजितस्य अस्य राष्ट्रिय-आयोजनस्य उद्घाटनं १९ जनवरीमासे लखनऊ-नगरस्य विधान-भवने लोकसभा-अध्यक्षः ओम-बिरला करिष्यति। उद्घाटन-सत्रे विविध-समितीनां सभा: आयोजिताः भविष्यन्ति। सम्मेलनस्य अवसरं प्राप्य देशस्य विभिन्न-राज्येभ्यः आगताः पीठासीन-अधिकारिणः, सचिवाः तथा गणमान्य-प्रतिनिधयः विधायी-प्रक्रियाः, संसदीय-परम्पराः, सदन-सञ्चालनम्, सुशासनम्, समसामयिक-विधायी-विषयान् चल विस्तृतं विचार-विमर्शं करिष्यन्ति।

सम्मेलनस्य प्रथम-दिने सायंकाले विधानसभायाः भीतिषु तथा गुम्बदे उत्तरप्रदेश-पर्यटन-विभागेन पश्चिमतः पूर्वपर्यन्तं प्रदेशस्य जनपदानां नगराणां च वर्णनात्मकं प्रकाश-ध्वनि-प्रदर्शनं प्रस्तुतं करिष्यते। अनन्तरं २० जनवरीमासे पूर्ण-सत्रे कार्यसूची-बिन्दुषु गम्भीरं चर्चनं भविष्यति। तदनन्तरम् उत्तरप्रदेशस्य समृद्ध-सांस्कृतिक-परम्पराम् आधृत्य विविध-सांस्कृतिक-कार्यक्रमाः अपि आयोज्यन्ते।

२१ जनवरीमासे समापन-सत्रे विभिन्न-संवैधानिक-पदाधिकारिणां प्रेरणादायक-उद्बोधनानि भविष्यन्ति। सम्मेलन-कालावधौ विधायी-परम्पराः, संसदीय-नवाचाराः, लोकतान्त्रिक-मूल्यानां सुदृढीकरणं च विषये सार्थकः संवादः स्थापितः भविष्यति। सम्मेलनानन्तरं २२ जनवरीमासे प्रतिभागिनः अयोध्या-धाम-भ्रमणं कृत्वा श्रीरामलला-दर्शनं करिष्यन्ति, २३ जनवरीमासे च प्रतिनिधीनां प्रस्थानं भविष्यति।

उल्लेखनीयं यत् एतत् सम्मेलनं संसदीय-लोकतन्त्रस्य अधिकं सशक्तीकरणाय, राज्येषु अनुभव-विनिमयाय, विधायी-संस्थासु समन्वय-वर्धनाय च महत्त्वपूर्ण: प्रयत्न: भवितुम् अर्हति। अस्मिन् राष्ट्रिय-स्तरीय-सम्मेलने लोकसभा-अध्यक्षः ओम्-बिरला, राज्यपालः आनन्दी-बेन-पटेल:, मुख्यमन्त्री योगी-आदित्यनाथः, राज्यसभा-उपसभापतिः हरिवंश-नारायण-सिंहः, विधानपरिषद्-सभापतिः कुँवर-मानवेन्द्र-सिंहः, उत्तरप्रदेश-विधानसभा-अध्यक्षः सतीश-महाना इत्यादयः तथा देशस्य विभिन्न-राज्यानां विधानमण्डलानां पीठासीन-अधिकारिणः, सभापतयः, अध्यक्षाः, सचिवाश्च सहभागं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता