Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम् (उत्तर-प्रदेश-राज्यम्), १८ जनवरीमासः (हि.स.)।गङ्गा-यमुना-प्राचीन-सरस्वती-नदीनां सङ्गमे मौनी-अमावास्या-स्नानं प्रवर्तते। सङ्गम-तटे कल्पवासं कुर्वन्तः जनाः रात्रौ द्वादशवादने एव पवित्र-स्नानार्थम् आगतवन्तः।
कल्पवासः माघ-मासे (पौष-पूर्णिमातः माघी-पूर्णिमापर्यन्तम्) सङ्गम-तटे एक-मास-पर्यन्तं प्रवर्तमाना कठिन-साधना अस्ति। श्रद्धालवः सांसारिक-मोहं परित्यज्य सङ्गम-तटे निवसन्तः तपः, जपः, भजनं तथा सत्सङ्गं कुर्वन्ति। अस्मिन् काले भूमौ शयनम्, एकवारं भोजनं तथा कठोर-अनुशासनस्य पालनं क्रियते। सङ्गमे सर्वत्र स्नानार्थिनः “हर-हर-गङ्गे” इति उद्घोषं कुर्वन्ति।
प्रयागराज-जनपदस्य जनपदाधिकारी मनीष-कुमार-वर्मा अवदत् यत् मौनी-अमावास्या-स्नानं रात्रौ द्वादशवादनात् आरब्धम् अस्ति। बहवः जनाः स्नानं कृतवन्तः। ह्यः प्रायः अर्ध-कोटि (१.५ कोटि) जनाः स्नातवन्तः। आरक्षी-आयुक्तः जोगेन्द्र-कुमारः अवदत् यत् मौनी-अमावास्या-स्नान-पर्वणि सुरक्षायाः सर्वे प्रबन्धाः कृताः सन्ति।
अद्य प्रायः त्रि-कोटि-परिमिताः श्रद्धालवः सङ्गमे स्नानं करिष्यन्तीति अनुमानम् अस्ति। सुरक्षाया: दृष्ट्या मेला-आरक्षिण: सम्पूर्ण-सङ्गम-क्षेत्रे जल-थल-नभः-मार्गेभ्यः निरीक्षणं करिष्यन्ति।
माघ-मेला-आरक्षी-अधीक्षकः नीरज-कुमार-पाण्डेयः अवदत् यत् सर्वेभ्यः मार्गेभ्यः स्नान-घट्टं प्रति आगमन-निर्गमन-पथाः संकेत-फलकैः (साइनेज) प्रदर्शिताः सन्ति। मेला-क्षेत्रे यदि सम्मर्द: वर्धते, तर्हि भण्डार-प्रसाद-वितरणम् अस्थायी-रूपेण स्थगयितुं सम्बन्धित-अधिकारिभ्य: निर्देशाः दत्ताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता