Enter your Email Address to subscribe to our newsletters





पुरुलिया, 18 जनवरीमासः (हि.स.)।पश्चिम-बङ्गाल-खादी-एवं-ग्रामीण-उद्योग-परिषदः तत्वावधानेन पुरुलिया-नगरे जीईएल-चर्च-मैदानस्थले आयोजितः ‘जिला-खादी-मेलापकः’ अद्यतनेषु दिनेषु स्थानीय-निवासिनां पर्यटकानां च आकर्षणस्य केन्द्रं भूत्वा स्थितः अस्ति। मेलापके राज्यस्य विभिन्न-कोणेषु आगताः खादी-वस्त्राणि, दुर्लभ-हस्तशिल्पाणि तथा पारंपरिक-पिठे-पुली (बङ्गाली-मिष्टान्नानि) इत्येषां सुवासः सम्पूर्णं परिसरं उत्सव-वातावरणैः पूर्णं कृतवान् अस्ति।
मेलापके अस्मिन् वर्षे पञ्जाबी-कुर्तकान्, जवाहर-कोट्-वस्त्राणि आरभ्य स्वर्णलता-पशमीना-प्रभृतयः उत्कृष्ट-शाटिकाः विशाल-श्रेण्यां प्रदर्शिताः सन्ति। अत्र केवलं वस्त्राणि एव न, अपि तु उत्तर-बङ्गालस्य जलपाईगुड़ी-प्रदेशस्य बेंत-निर्मित-फर्नीचरम्, कूचबिहारस्य प्रसिद्धा शीतलपाटी, मेदिनीपुरस्य पारंपरिक-पटचित्राणि अपि उपलब्धानि सन्ति। मोहनीगञ्जस्य प्रसिद्धः तुलाईपांजी-धान्यः तथा सुन्दरबनस्य शुद्धः मधु अपि ग्राहकान् स्वस्य ओरं आकर्षयति।
मेलापके सहभागी चित्रकारा केशिना अवदत् यत् सा खादी-वस्त्रेषु बङ्गालस्य पारंपरिक-पटचित्राणि अंकयति, यत् ग्राहकैः अत्यन्तं रुच्यते। कूचबिहारतः आगतः शीतलपाटी-शिल्पी अनील-दे अवदत्— “पूर्ववर्षे मम सर्वः संग्रहः विक्रीतः आसीत्, अतः अस्मिन् वर्षे अहं अधिकं सामानम् आनयामि तथा विक्रयः अपि सन्तोषजनकः अस्ति।” जलपाईगुड़ी-निवासी अनिल-मातब्वरः प्रथमवारं बेंत-फर्नीचर-सहितः अत्र आगतः अस्ति, तस्मै स्थानीय-जनैः सकारात्मकः प्रतिसादः लभ्यते।
मेलापके एकः प्रमुखः आकर्षणः नदिया-जनपदस्य कुशबेड़िया-ग्रामात् आगतः अनिर्बान-विश्वासस्य स्तम्भः अस्ति, यत्र बाङ्ग्लादेशस्य जेशोर-प्रदेशस्य पारंपरिक-शैलीनुसारं निर्मिताः पिठकाः परोक्ष्यन्ते। मेले आगता एका वृद्धा महिला अल्पना-मैत्र भावुकतया अवदत्— “अद्यतनस्य धावन-पूर्ण-जीवने गृहे पारंपरिक-पिठकानां निर्माणं न्यूनं जातम् अस्ति। अहं स्वीयाः दुहितॄः अत्र तस्मात् आनयामि यत् ताः अस्माकं मूलैः तथा एतेषां पारंपरिक-स्वादैः परिचिताः भवेयुः।”
जिला-खादी-विभागस्य अधिकारी पापु-मुखोपाध्यायस्य अनुसारं गतवर्षे अस्य मेलेन 1 कोटि 80 लक्ष-रूप्यकाणां व्यापारः कृतः आसीत्। अस्मिन् वर्षे अपि सम्मर्द्धम् उत्साहं च दृष्ट्वा अस्य व्यापार-अङ्कस्य अतिक्रमणस्य पूर्णा आशा वर्तते। दश-जनवरी-दिनात् आरब्धः अयं हस्तशिल्प-संस्कृति-समागमः आगामी 20 जनवरीपर्यन्तं प्रवर्तते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता