Enter your Email Address to subscribe to our newsletters

रामेश्वरम्, 18 जनवरीमासः(हि.स.)।
तमिलनाडुराज्यस्य रामनाथपुरम्-जनपदे रामेश्वरनगरे स्थिते रामनाथस्वामी-मन्दिरे अद्य थाई-अमावस्यायाः अवसरं प्रति बहुसंख्यकाः श्रद्धालवः समागताः। श्रद्धालवः अग्नितीर्थ-समुद्रे पवित्रस्नानं कृत्वा स्वपितृभ्यः तिथिं समर्पितवन्तः।
हिन्दूनां प्रमुखेषु तीर्थस्थानेषु रामेश्वरम् अपि एकं प्रसिद्धं तीर्थं वर्तते। अत्र आडी-अमावस्या, थाई-अमावस्या तथा महालय-अमावस्या-दिनेषु अग्नितीर्थ-समुद्रे पवित्रस्नानं कृत्वा पितृभ्यः तिथिं समर्पयितुं परम्परा प्रचलिता अस्ति।
अद्य थाई-अमावस्यायां तमिलनाडुराज्यस्य विविधेभ्यः जनपदेभ्यः अन्येभ्यः राज्येभ्यः च अर्धरात्रेः एव सहस्रशः वाहनैः तथा शासकीय-बसयानैः बहवः श्रद्धालवः रामेश्वरं प्राप्तवन्तः। थाई-अमावस्यायां रामनाथस्वामी-मन्दिरस्य कपाटाः प्रातः चतुर्वादने उद्घाटिताः, ततः पूजाऽर्चनायाḥ क्रमः आरब्धः।
प्रातः प्रभाते एव श्रद्धालवः अग्नितीर्थ-समुद्रे पवित्रस्नानं कर्तुं प्रारब्धवन्तः। ततः समुद्रतटे समीपस्थेषु च रेतीप्रदेशेषु उपविश्य पितृणां कृते तिथिं तर्पणं च अकरोत्। अनन्तरं पुनः अग्नितीर्थे स्नानं कृत्वा रामनाथस्वामी-मन्दिरस्य द्वाविंशतिः तीर्थकूपेषु पवित्रस्नानं कृतवन्तः, पश्चात् रामनाथस्वामी-पार्वतवर्धिनी-अम्बायोः दर्शनं कृतवन्तः। एषः क्रमः सायंकालपर्यन्तं प्रवर्तिष्यते।
थाई-अमावस्यायां रामेश्वरनगरे अत्यधिक-जनसमागमस्य सम्भावनां दृष्ट्वा स्थानीय-प्रशासनं श्रद्धालूनां सुविधानां तथा विधि-व्यवस्थायाः संरक्षणार्थं समुचिताः व्यवस्थाः कृतवान्। सम्पूर्णे क्षेत्रे बहुसंख्यकः पुलिसबलः नियुक्तःकृतः अस्ति।
---------------
हिन्दुस्थान समाचार