Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 18 जनवरीमासः (हि.स.)।
उत्तराखण्डस्य आस्था-संस्कृतिसम्बद्धा नन्दा देवी राजजात नाम्नी पैदलधार्मिकयात्रा अस्मिन् वर्षे न आयोज्यते। द्वादशवर्षे एकवारं आयोज्यमाना विश्वस्य दीर्घतमा धार्मिकयात्रा प्रायः अष्टाविंशतिशताधिककिलोमीटरपरिमितं मार्गं विंशतिदिनेषु पूर्णं करोति। एतत् निर्णयं श्रीनन्दा देवी राजजात समित्या गृहीतम्।
श्रीनन्दा देवी राजजात समितेः अध्यक्षः डॉ. राकेश कुंवरः चमोलीनगरे आयोजितायां पत्रकारवार्तायां अवदत् यत् हिमालयप्रदेशे यात्रासम्बद्धानि आवश्यककार्याणि अद्यापि पूर्णानि न अभवन्। मार्गाः व्यवस्थाः आधारभूतसुविधाश्च अद्यापि अपूर्णाः सन्ति, तस्मात् अस्मिन् वर्षे राजजातायाः आयोजनं सम्भवं न अस्ति। समितेः कथनानुसारं नन्दा देवी राजजात यात्रायाः आयोजनं वर्षे 2027 तमे कर्तुं निश्चितम्।
हिमालयीमहाकुम्भ इति ख्यातायाः अस्याः यात्रायाः स्थगनात् श्रद्धालुषु स्थानीयजनानां च किञ्चित् निराशा दृश्यते, तथापि समितिः वदति यत् उत्तमाभिः सुरक्षिताभिः च व्यवस्थाभिः सह राजजातायाः आयोजनं भविष्यति।
हिन्दुस्थान समाचार