Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 18 जनवरीमासः (हि.स.)।
पैरालिंपिक कमेटी ऑफ इंडिया तथा पैरालिंपिक एसोसिएशन ऑफ उत्तराखंड इत्येतयोः संयुक्ततत्त्वावधानात् हरिद्वार नगरे आयोजितायां राष्ट्रियायां पैरा पावरलिफ्टिंग चैंपियनशृंखला 2026 प्रतियोगितायां उत्तराखंडप्रदेशस्य क्रीडकैः अत्युत्तमं प्रदर्शनं कृतम्।
अस्यां प्रतियोगितायां उत्तराखंडस्य पैरा पावरलिफ्टिंग दलं द्वौ पदकौ स्वनाम्ना अकरोत्। भारती अग्रवालः 49 किलोग्राम भारवर्गे उत्कृष्टं प्रदर्शनं कृत्वा रजतपदकं प्राप्तवती। तथा च मानिक आर्यः 54 किलोग्राम भारवर्गे दृढं कौशलं प्रदर्शयन् कांस्यपदकं जितवान्।
पैरालिंपिक एसोसिएशन ऑफ उत्तराखंडेन उभौ पदकविजेतारौ खिलाडौ अभिनन्दितौ, शुभाशयाश्च दत्ताः। एसोसिएशने अपेक्षा व्यक्ता यत् भविष्ये अपि उत्तराखंडप्रदेशस्य पैरा खिलाडिनः राष्ट्रीये अन्ता राष्ट्रिये च स्तरयोः श्रेष्ठं प्रदर्शनं कृत्वा राज्यस्य देशस्य च नाम उज्ज्वलयिष्यन्ति।
एसोसिएशनस्य सचिवाः अमिता देवी राज्यसर्वकारस्य, क्रीडाविभागस्य, सहयोगिसंस्थाभ्यश्च प्राप्तस्य सहयोगस्य प्रति कृतज्ञतां प्रकटयन्ती अवदत् यत् पैरा खिलाडिनां प्रोत्साहनाय उन्नत्यै च निरन्तरं प्रयासाः क्रियिष्यन्ते।
राष्ट्रिय पैरा पावरलिफ्टिंग चैंपियनशृंखला 2026 प्रतियोगिता हरिद्वारे 16 तः 18 जनवरीपर्यन्तं आयोजिताभवत्।
---------------
हिन्दुस्थान समाचार