Enter your Email Address to subscribe to our newsletters

नागपुरे मध्यम-परिमाण-विस्फौटक-निर्माण्या: उद्घाटनम्
नागपुरनगरम्, १८ जनवरीमासः (हि.स.)। रक्षा-मन्त्री राजनाथः सिंहः रविवासरे अवदत् यत् भारतदेशः अधुना सैन्य-उपकरणानाम् आयातकः न, अपि तु निर्यातकः भवितुं शीघ्रं गच्छति।महाराष्ट्र-राज्यस्य नागपुरनगरे सोलर-इण्डस्ट्रीज-नामकस्य उद्योगसमूहस्य मध्यम-परिमाण-विस्फोटक-निर्माण-सुविधायाः उद्घाटनावसरे सः एतत् वक्तुम् आरब्धवान्।
तेन उक्तं यत् एषः उपक्रमः देशस्य रक्षा-क्षेत्रे आत्मनिर्भरता-साधने महत्त्वपूर्णः प्रयत्न: अस्ति। रक्षा-क्षेत्रे वैयक्तिक-उद्योगानां भूमिका निरन्तरं दृढीभवति, तथा “आत्मनिर्भर-भारत” संकल्पस्य साकारतायां सोलर-इण्डस्ट्रीज्-इव उद्योगाः विशेषं योगदानं ददति।
राजनाथः सिंहः अवदत्—यदा सः एतानि आधुनिक-रक्षा-यन्त्रालयानि पश्यति, तदा तस्मै केवलम् एका निर्माणी न दृश्यते, अपि तु नूतनः संकल्पः, नूतना ऊर्जा, नवाचारश्च दृश्यते।
तेन कथितं यत् पूर्वं रक्षा-उत्पादनं प्रायः पूर्णतः सार्वजनिक-क्षेत्रे एव सीमितम् आसीत्, किन्तु गतवर्षेषु एषा भावना परिवर्तिता अस्ति। अधुना वैयक्तिक-क्षेत्रम् अपि रक्षा-उत्पादने महतीं भूमिकां निर्वहति, येन आयात-आश्रयता न्यूना भवति, तथा भारतीय-सशस्त्र-बलानां कृते समये उच्च-गुणवत्तायुक्तं विस्फोटकम् उपलब्धं भवति।
सः अवदत् यत् युद्धस्य स्वरूपम् अपि परिवर्तते, तथा तस्य प्रभावः साधारण-नागरिकेषु अपि दृश्यते। अतः आधुनिक-प्रौद्योगिकी, नूतन-नवाचारैः सह, रक्षा-उद्योगस्य सुदृढीकरणम् अत्यावश्यकम् अस्ति।
राजनाथः सिंहः अपि अवदत् यत् भारतदेश: अधुना रक्षा-उत्पाद-क्षेत्रे वैश्विक-नेतृत्वस्य दिशि अग्रसरः अस्ति। नागपुरनगरम् अपि शीघ्रं रक्षा-उद्योगस्य केन्द्ररूपेण विकसितः भवति। अत्र न केवलं नूतन-रक्षा-उद्योगाः स्थाप्यन्ते, अपि तु पूर्वविद्यमान-उद्योगाः अपि विस्तार-दिशि कार्यं कुर्वन्ति।
सोलर-इण्डस्ट्रीज-संस्थायाः अध्यक्षः सत्यनारायणः नुवालः अवदत् यत् “नागास्त्र”-इत्यादीनां स्वदेशी-शस्त्राणां निर्माणं तथा तेषां सफलः उपयोगः देशस्य रक्षा-क्षमतां दर्शयति। राष्ट्र-रक्षा-हिताय तथा देशहिताय “आत्मनिर्भर-भारत” लक्ष्यं दृष्ट्वा सोलर-इण्डस्ट्रीज निरन्तरं कार्यं करोति इति।
अस्मिन् कार्यक्रमे रक्षा-सचिवः राजेशः कुमारः सिंहः तथा पालक-मन्त्री चन्द्रशेखरः बावनकुले अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता