प्रधानमंत्रि- आवास योजनया ग्रामीण जीवनाय लब्धो नूतनः आधारः
-सर्वकारस्य प्रयत्नेन ग्रामेषु साकारीजातः दृढ-आवासस्य स्वप्नः देहरादूनम्, 18 जनवरीमासः (हि.स.)।जनपदस्य पौड़ी-गढ़वालस्य ग्रामीण-अञ्चलेषु अधुना केवलं गृहाणि न निर्मीयन्ते, अपि तु आशाः अपि आकारं गृह्णन्ति। प्रधानमन्त्री-आवास-योजना (ग्रामीण) तेषां
प्रतीकात्मक चित्र


-सर्वकारस्य प्रयत्नेन ग्रामेषु साकारीजातः दृढ-आवासस्य स्वप्नः

देहरादूनम्, 18 जनवरीमासः (हि.स.)।जनपदस्य पौड़ी-गढ़वालस्य ग्रामीण-अञ्चलेषु अधुना केवलं गृहाणि न निर्मीयन्ते, अपि तु आशाः अपि आकारं गृह्णन्ति। प्रधानमन्त्री-आवास-योजना (ग्रामीण) तेषां परिवाराणां जीवनं स्थैर्येण आत्मविश्वासेन च पूरितवती, येषां कृते कदाचित् पक्का-छदः केवलं स्वप्नमात्रम् आसीत्। अद्य तदेव स्वप्नं यथार्थरूपेण परिणत्य ग्रामे ग्रामे स्मितं प्रसारयति।

मुख्य-विकास-अधिकारी गिरीश-गुणवन्तः अवदत् यत् वर्षे 2016 आरभ्य 2024 पर्यन्तं जनपदे 4594 पात्र-परिवाराणां कृते सुरक्षितं सम्मानजनकं च आवासं प्रदत्तम् अस्ति। एषः केवलं निर्माणस्य न, अपि तु विश्वास-निर्माणस्य प्रमाणम् अपि अस्ति। तथा च आवास-प्लस-सर्वे 2024 अन्तर्गतं सर्वेषु विकासखण्डेषु 12379 नूतन-आवासानां कृते सर्वेक्षणं सम्पूर्णं कृतम् अस्ति। एतत् सर्वेक्षणं त्रिषु चरणेषु क्रियते, अस्य वैधता च पञ्चवर्षाणि भवति, येन केवलं वास्तविक-आवश्यकतायुक्ताः एव योजनया सह सम्बध्यन्ते। अधुना जिला-स्तरीय-समित्या पात्र-जनाः चिन्हिताः कृत्वा अग्रिम-प्रक्रिया शीघ्रतया प्रवर्त्यते।

सः अपि अवदत् यत् अस्याः योजनायाः महत्तमा विशेषता प्रत्यक्षः पारदर्शीः च लाभः अस्ति। पात्र-लाभार्थिभ्यः एकलक्ष-त्रिंशत्-सहस्र-रूप्यकाणां सहाय्य-राशिः त्रिषु किश्तासु साक्षात् खाते प्रेष्यते। अस्य सह 95 दिनानां विकसित-भारत-जी-राम-जी इति मजदूरी तथा उत्तराखण्ड-राज्य-सर्वकारेण पाकशालायै सामग्री-भाण्डानां कृते षट्-सहस्र-रूप्यकाणां अतिरिक्त-सहायता अपि दीयते। अस्याः योजनायाः माध्यमेन पात्र-लाभार्थिभ्यः एकं कक्षं, एकं पाकशालां, शौचालयं च युक्तं मूलभूत-सुविधासम्पन्नं गृहं लभ्यते।मुख्य-विकास-अधिकारी गिरीश-गुणवन्तस्य कथनं यत् प्रधानमन्त्री-आवास-योजना केवलं गृह-निर्माण-योजना न, अपि तु दरिद्र-परिवाराणां जीवनाय दृढं आधारं दातुं कृतः प्रयासः अस्ति। सः अवदत् यत् योजनायाः पारदर्शी-प्रक्रियया समयबद्ध-क्रियान्वयनेन च जनपदः प्रतिवर्षं स्वलक्ष्याणि सफलतया प्राप्नोति। अनेन पात्र-जनानां सरकारे प्रति विश्वासः अधिकं दृढः अभवत्।

योजनायाः अन्तर्गतं वर्षे 2016–17 मध्ये 215 लक्ष्यं पूर्णीकृतम्, 2017–18 मध्ये 184 लक्ष्यं सिद्धम्, 2020–21 मध्ये 860 लक्ष्यं सम्पूर्णम्, 2021–22 मध्ये 147 लक्ष्यं प्राप्तम्, 2022–23 मध्ये 2049 लक्ष्येषु 2043 आवासानि निर्मितानि, 2023–24 मध्ये 1146 लक्ष्येषु 1145 परिवाराणां कृते गृहाणि प्रदत्तानि। प्रधानमन्त्री-आवास-योजनया जनपदस्य ग्रामेषु परिवर्तनस्य आधारशिला स्थापिता अस्ति। अद्य पक्का-भित्तिभिः सह सह जनानां स्वप्नान् अपि दृढान् अभवन्।

हिन्दुस्थान समाचार