गुवाहाटीनगरे भारत-कौशलस्य पूर्वोत्तर-क्षेत्रीयप्रतियोगितायाः शुभारम्भः
गुवाहाटीनगरम्, १९ जनवरीमास: (हि.स.)। अद्य गुवाहाटी-विश्वविद्यालये भारत-कौशल २०२५–२६ नाम्ना पूर्वोत्तर-क्षेत्रीय-प्रतियोगितायाः शुभारम्भः अभवत्। चतुर्दिवसीयायाः अस्याः प्रतियोगितायाः उद्घाटनं केन्द्रीय-कौशल-विकास-एवं-उद्यमिता-राज्यमन्त्रिणा (स्वतन्त
कौशल विकास एवं उद्यमिता राज्य मंत्री (स्वतंत्र प्रभार) तथा शिक्षा राज्य मंत्री जयंत चौधरी


गुवाहाटीनगरम्, १९ जनवरीमास: (हि.स.)। अद्य गुवाहाटी-विश्वविद्यालये भारत-कौशल २०२५–२६ नाम्ना पूर्वोत्तर-क्षेत्रीय-प्रतियोगितायाः शुभारम्भः अभवत्। चतुर्दिवसीयायाः अस्याः प्रतियोगितायाः उद्घाटनं केन्द्रीय-कौशल-विकास-एवं-उद्यमिता-राज्यमन्त्रिणा (स्वतन्त्र-प्रभारः) जयन्त-चौधरी इत्यनेन कृतम्। प्रतियोगितायां पूर्वोत्तर-भारतस्य अष्ट-राज्येभ्यः आगताः युवकाः २६ भिन्नासु कौशल-श्रेणीषु भागं गृह्णन्ति। कौशल-विकास-एवं-उद्यमिता-मन्त्रालयस्य सूचनानुसारम् उद्घाटन-समारोहसमये गुवाहाटी-विश्वविद्यालयस्य कुलपतिः डॉ.नानी-गोपाल-महन्तः, असम-राज्यस्य वरिष्ठ-अधिकारिणः, तथा मन्त्रालस्य संयुक्त-सचिवा हिना-उस्मान: च उपस्थिताः आसन्।

जयन्त-चौधरी अवदत् यत् भारत-कौशलं केवलं प्रतियोगिता न अस्ति, अपि तु परिश्रमस्य, अनुशासनस्य, कर्मणां गरिमायाः च उत्सवः अस्ति। पूर्वोत्तर-भारतस्य यून: भारतस्य कुशल-कार्यबलस्य नेतृत्वं कर्तुं सज्जाः सन्ति। नव-शिक्षा-नीति २०२० अन्तर्गतं शिक्षाया: कौशल-विकासेन सह संयोजनात् रोजगारस्य उद्यमितायाश्च नूतनाः मार्गाः उद्घटिष्यन्ति।

अस्यां प्रतियोगितायां १६२ प्रतिभागिनः सम्मिलिताः सन्ति। अत्र ऑटोमोबाइल-प्रौद्योगिकी, क्लाउड-कम्प्यूटिङ्ग, चलभाष-तन्त्र-विकासः, फैशन-प्रौद्योगिकी, पाक-कला, आश्रयस्थल-स्वागत-सेवा, भोजनालय-सेवा, स्वास्थ्य-एवं-सामाजिकदक्षता, खुद्र-विक्रयः, दृश्य-विपणनं च इत्यादयः बहूनि कौशल-क्षेत्राणि अन्तर्भवन्ति। विशेषं यत् स्त्रियः अपि ऑटोमोबाइल-इलेक्ट्रॉनिक्स-वेल्डिंग-विद्युत्-स्थापना इत्यादिषु प्रौद्योगिकी-क्षेत्रेषु बहुसंख्यया सहभागितां कुर्वन्ति। प्रतियोगितायाः विजेतारः अग्रे राष्ट्रीय-स्तरे अवसरं प्राप्स्यन्ति, तथा चिताः प्रतिभागिनः सितम्बर २०२६ मध्ये शाङ्घायाम् आयोज्यमानायां विश्वकौशलप्रतियोगितायां भारतस्य प्रतिनिधित्वं करिष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani