Enter your Email Address to subscribe to our newsletters



उज्जैनम्, 19 जनवरीमासः (हि.स.)।मध्यप्रदेशस्य उज्जैन–नगरे माघमासस्य गुप्तनवरात्रेः प्रथमदिने सोमवासरे प्रमुखे शक्तिपीठे हरसिद्धि माता मंदिर दीपमालिका–दर्शनाय सहस्रशः श्रद्धालवः समागताः। अनेनैव सह नवदिनात्मकायाः मातुः गुप्त–आराधनायाः पूजाक्रमः आरब्धः।
नगरस्य अन्येषु प्राचीनमन्दिरेषु— गढ़ कालिका मंदिर, भूखी माता मंदिर, 24 खंबा माता मंदिर, चामुंडा माता मंदिर, नगरकोट माता मंदिर, विंध्यवासिनी माता मंदिर— गुप्तनवरात्रौ साधकैः गुप्तसाधना अपि क्रियते।
मठाधीशः महंत रामचंद्र गिरी अवदत् यत् हरसिद्धि–माता–मन्दिरे प्रथमदिने पूजारिणा रजत गुरु–महोदयेन मनोहरः शृङ्गारः कृतः। ततः परं मङ्गलारत्याः अनन्तरं दर्शन–क्रमः आरब्धः, यः रात्रेः उत्तरार्धपर्यन्तं प्रवर्तितः। सायङ्काले मन्दिरपरिसरे स्थिते द्वे विशाल–दीपमालिके प्रज्वालिते।
दीपमालिका–दर्शनाय सहस्रशः भक्ताः मातृमन्दिरे उपस्थिता आसन्। यदा दीपज्योतिः प्रज्वलिता, तदा भक्तानां जयघोषैः परिसरः निनादितः। मन्दिरे गुप्तनवरात्र्यन्तर्गतं पूजापाठः, सप्तशती–यज्ञादयश्च विधयः निरन्तरं प्रवर्तिष्यन्ते।
---------------
हिन्दुस्थान समाचार