Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 18 जनवरीमासः (हि.स.)।
मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा असमराज्यस्य पुलिस् भरतीप्रक्रियायां आयुसीमावृद्धिं घोषिता। अधुना पुलिस् भरत्यर्थं अधिकतमा आयुसीमा पञ्चविंशतिवर्षाणां स्थाने षड्विंशतिवर्षाणि निर्धारिता।
मुख्यमन्त्री अवदत् यत् असम डायरेक्ट रिक्रूटमेंट एग्जामिनेशन नाम्ना परीक्षामार्गेण नियुक्तानां कर्मचारिणां स्थानान्तरणसम्बन्धे शीघ्रमेव ‘स्वागत सतीर्थ’ नामकं पोर्टल् प्रारम्भयिष्यते। तेन सह दिव्याङ्गाभ्यर्थिनां मागं दृष्ट्वा नियुक्तिप्रक्रियायां द्वितीयवारं वैद्यकीयपरीक्षणस्य सुविधाप्रदानस्य अपि घोषणा कृता।
सः अपि अवदत् यत् प्रादेशिकीकरणप्रक्रियायै पृथक् पोर्टल् अपि शीघ्रमेव आरम्भयिष्यते, येन सम्बन्धितकार्येषु पारदर्शिता शीघ्रता च भविष्यतः। एताः सर्वाः घोषणाः मुख्यमन्त्रीणा फेसबुक् लाइव् माध्यमेन कृताः।
राज्यस्य सांस्कृतिकपरिचयविषये भाषमाणः मुख्यमन्त्री अवदत् यत् चीनदेशे आयोजिते ओलम्पिक् क्रीडायाः उद्घाटनसमारोहस्य भव्यतया असमराज्यस्य बागुरुम्बा नृत्यस्य देशव्यापी तुलना क्रियते। सः अवदत् यत् प्रधानमन्त्री नरेन्द्र मोदी बागुरुम्बा नृत्यस्य वैश्विकमञ्चे प्रचारप्रसारे महत्त्वपूर्णां भूमिकां निर्वहति तथा असमराज्यस्य सांस्कृतिकब्राण्डदूत इव कार्यं करोति।
हिन्दुस्थान समाचार