प्रयागराजे अविमुक्तेश्वरानंद सरस्वतीवर्येण सह दुर्व्यवहारो निंदनीय: कांग्रेसपक्षः
नव दिल्ली, 19 जनवरीमासः(हि.स.)। काङ्ग्रेसदलेन प्रयागराजे मौनीअमावस्यायां शंकराचार्यः अविमुक्तेश्वरानन्दसरस्वती स्नानार्थं गच्छन् इति काले, पुलिसद्वारा कथितरूपेण निरुद्धः तथा तस्य शिष्यैः सह धक्कामुक्क्याः घटना अभवत्, सा निन्दनीया इति अभिहिता। काङ
कांग्रेस प्रवक्ता पवन खेड़ा


नव दिल्ली, 19 जनवरीमासः(हि.स.)।

काङ्ग्रेसदलेन प्रयागराजे मौनीअमावस्यायां शंकराचार्यः अविमुक्तेश्वरानन्दसरस्वती स्नानार्थं गच्छन् इति काले, पुलिसद्वारा कथितरूपेण निरुद्धः तथा तस्य शिष्यैः सह धक्कामुक्क्याः घटना अभवत्, सा निन्दनीया इति अभिहिता। काङ्ग्रेसप्रवक्ता पवनखेड़ा सोमवासरे अत्र दलमुख्यालये आयोजितायां पत्रकारवार्तायां तस्याः घटनायाः तीव्रनिन्दां कृत्वा प्रधानमन्त्री नरेन्द्रमोदीं हस्तक्षेपार्थं आहूतवान्। सः अवदत् यत् सम्पूर्णा काङ्ग्रेस् सन्तानां समर्थनार्थं दृढतया स्थिताऽस्ति।

सः उक्तवान् यत् शंकराचार्यस्वामिनः अविमुक्तेश्वरानन्दस्य सह यत् दुर्व्यवहारः कृतः, तेन सर्वे दुःखिताः सन्ति। अस्याः घटनायाः अनन्तरं शंकराचार्यः अनशनं आरब्धवान्, किन्तु शासनस्य केनापि तत्र ध्यानं न दत्तम्। सन्तानाम् अपमानात् सर्वे दुःखिताः सन्ति। सः आरोपं कृतवान् यत् भाजपाशासने सर्वत्र अव्यवस्थायाः वातावरणं दृश्यते।

सः अवदत् यत् माघमेलायां जनैः सह सन्तानां शाहीस्नानस्य व्यवस्था अतीव प्राचीना अस्ति। एषा व्यवस्था मुगलकालात् आङ्ग्लकालात् च पूर्वमेव प्रवृत्ता आसीत्। अद्यपर्यन्तं कदापि कश्चन सन्तान् शाहीस्नानात् न निरुद्धवान्। एकस्मिन् पक्षे अस्यां सरकारे सन्ताः स्नानार्थं निरुध्यन्ते, अपरस्मिन् पक्षे कुम्भमेलादृशेषु महत्सु आयोजनेषु धनिकजनानां कृते विशेष-विआइपी-व्यवस्था विधीयते। एतत् निन्दनीयं वर्तते।

सः अवदत्— “वयं धर्मस्य राजनीतिं न कुर्मः, न च ताम् सहिष्यामः। मौनीअमावस्यायाः शाहीस्नानं अखण्डा परम्परा अस्ति, तस्य निरोधः कर्तुं न शक्यते।” सः अपेक्षां व्यक्तवान् यत् उत्तरप्रदेशस्य मुख्यमन्त्री अस्मिन् विषये क्षमायाचनां करोतु।

सः पुनः अवदत् यत् सम्पूर्णा काङ्ग्रेस् सन्तैः सह स्थिताऽस्ति, तथा च प्रदेशीयकाङ्ग्रेस् शीघ्रमेव तेषां सम्पर्कं प्राप्य प्रशासनस्य उपरि दबावं करिष्यति।

उल्लेखनीयं यत् मौनीअमावस्यायाः अवसरं प्राप्य प्रयागराजे शंकराचार्यः अविमुक्तेश्वरानन्दसरस्वती पालक्यां स्थित्वा स्नानार्थं गच्छन् आसीत्, तदा भीडस्य कारणात् पुलिसद्वारा तस्मै पालकीं त्यक्त्वा पदातिगमनाय अनुरोधः कृतः। तस्मिन् विषये सः असन्तोषं प्रकटितवान्। तत्क्षणमेव तस्य समर्थकैः पुलिसकर्मिभिः सह धक्कामुक्की अभवत्। तया घटनया क्रुद्धः शंकराचार्यः अनशनम् आरब्धवान्।

---

-------------

हिन्दुस्थान समाचार