Enter your Email Address to subscribe to our newsletters


उज्जैनम्, 19 जनवरीमासः (हि.स.)। प्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव अस्मिन् वर्षे गणतन्त्रदिवसे, षड्विंशतितमे जनवरीमासदिने, कार्तिक–मेला–क्रीडांगणे राष्ट्रध्वजं आरोहयिष्यति। डॉ. यादवः पञ्चविंशतितमे जनवरीमासदिने कोठी–मार्गे आयोजिते राहगीरी–उत्सवेऽपि सहभागं करिष्यति। अस्याः सम्बन्धिन्याः सिद्धतायाः कृते सोमवासरे जिलाधिकारी रौशनकुमार सिंहेन अधिकारिणः सभायां निर्देशिताः
जिलाधिकारिणः सभायां गणतन्त्रदिवसस्य आयोजन–तैयारी–सम्बन्धे उपस्थितानां शासकीय–विभागानां जिलाधिकारिणः प्रति निर्मीयमानानां प्रदर्शनीनां विषये विशेषनिर्देशाः दत्ताः। प्रतिवर्षवत् अस्मिन् वर्षेऽपि भारत–पर्वस्य आयोजनं कालिदास संस्कृत अकादमी–स्थले एव भविष्यति—इति विषयमपि जिलाधिकारीणः स्पष्टतया निर्दिष्टवान्।
गणतन्त्रदिवसे जनपदे प्राथमिक–माध्यमिक–स्तरस्य सर्वेषु शासकीय–अर्धशासकीय–मदरसा–विद्यालयेषु मध्यान्ह–भोजने शाकं पूडी च हल्वा अथवा शाकं पूडी च क्षीरं पाचयितुम् इति आदेशाः जिला–शिक्षा–विभागेन निर्गताः। सम्भावना अस्ति यत् कस्मिंश्चित् विद्यालये मुख्यमन्त्री स्वयमेव बालकैः सह मध्यान्ह–भोजनं करिष्यति।
राहगीरी–मार्गे भित्तिषु मनोहरं चित्रकर्ममुख्यमन्त्री डॉ. यादवः पञ्चविंशतितमे जनवरीमासे, रविवासरे, तरणतालात् कोठी–मार्गपर्यन्तं राहगीरी–उत्सवे सहभागं करिष्यति। अस्य आयोजनस्य कृते नगर–निगमेन मार्गे व्यवस्थाः अन्तिमरूपे स्थाप्यन्ते। भित्तिषु मनोहरं चित्रकर्म क्रियते, वृक्ष–लतानां छेदन–संस्कारः, पेवर्–ब्लॉक–स्थापनं च कार्यं प्रचलति। प्रभारी नगर–निगम–आयुक्तः संतोष टैगोर अवदत् यत् सम्पूर्णे राहगीरी–मार्गे मरम्मत–कार्यं पेंच–वर्क–कार्यं च निरन्तरं क्रियते।
---------------
हिन्दुस्थान समाचार