मतदातृसूची श्रवणगोचरता चर्चितजनानाम् आह्वाने विवादो निराधारः : निर्वाचन-आयोगः
कोलकाता, 19 जनवरीमासः (हि. स.)। पश्चिम-बङ्गाल-राज्ये मतदातृ-सूच्याः विशेष-गहन-पुनरीक्षणस्य (एसआइआर) कालावधौ प्रसिद्ध-व्यक्तीनां श्रवणाय आह्वानं कृतम् इति विषये यत् विवादाः उत्पन्नाः, तान् भारतीय-निर्वाचन-आयोगः निराधारान् इति अवदत्। निर्वाचन-आयोगेन
चुनाव आयोग


कोलकाता, 19 जनवरीमासः (हि. स.)। पश्चिम-बङ्गाल-राज्ये मतदातृ-सूच्याः विशेष-गहन-पुनरीक्षणस्य (एसआइआर) कालावधौ प्रसिद्ध-व्यक्तीनां श्रवणाय आह्वानं कृतम् इति विषये यत् विवादाः उत्पन्नाः, तान् भारतीय-निर्वाचन-आयोगः निराधारान् इति अवदत्।

निर्वाचन-आयोगेन स्पष्टं कृतं यत् दाव-आपत्तिभिः सम्बन्धित-श्रवणाय कस्यापि मतदातुः आह्वानं प्रक्रियानुसारमेव भवति, अस्मिन् विषये किमपि पक्षपातं न कृतम्।

अल्पकाले नेताजी सुभाष-चन्द्र-बोसस्य प्रपौत्रः चन्द्र-कुमार-बोसः श्रवणाय आहूतः अभवत्, तस्य अनन्तरं राजनीतिक-विवादः उत्पन्नः। अस्मिन् सन्दर्भे प्रश्नाः उत्थापिताः यत् नेताजी-परिवारस्य सदस्याय किमर्थं सूचना प्रेषिता इति।

अस्य उत्तररूपे पश्चिम-बङ्गालस्य मुख्य-निर्वाचन-अधिकारी-कार्यालयेन स्थितिः स्पष्टा कृता। कार्यालयेन उक्तं यत् चन्द्र-कुमार-बोसः अन्येषां मतदातॄणां सदृशमेव आहूतः। कार्यालयात् निर्गत-स्पष्टीकरणे निर्दिष्टं यत् तस्य गणना-प्रपत्रे पारिवारिक-सम्बन्ध-सूचकः स्तम्भः रिक्तः आसीत्। एतस्मात् कारणात् सः श्रवणाय आहूतः।

मुख्य-निर्वाचन-अधिकारी-कार्यालयस्य अनुसारं भारतीय-निर्वाचन-आयोगस्य अधिसूचनायाः अधीनं येषां मतदातॄणां प्रपत्रेषु आवश्यक-विवरणं अपूर्णं दृश्यते, तान् सर्वान् श्रवणाय आह्वयते।

अस्मात् पूर्वं अभिनेता-नेता-रूपेण परिणतः तृणमूल-कांग्रेस-पक्षस्य लोकसभा-सदस्यः दीपक-अधिकारी, पूर्व-राज्यसभा-सदस्यः तथा मोहन-बागान्-फुट्बॉल-क्लबस्य पूर्वाध्यक्षः स्वपन-साधन-बोसः, तस्य पुत्रः तथा पूर्व-राज्यसभा-सदस्यः सृञ्जय-बोसः, तथा भारतीय-क्रिकेट-दलस्य वेग-गोलन्दाजः मोहम्मद्-शमी च एवंविधाः श्रवण-सूचनाः प्राप्नुवन्तः।

मुख्य-निर्वाचन-अधिकारी-कार्यालयस्य सूत्रैः उक्तं यत् एतेषां सर्वेषां प्रकरणेषु अपि गणना-प्रपत्रेषु सम्बन्ध-सूचकः स्तम्भः रिक्तः आसीत्। यदि सम्बन्धितैः पूर्वमेव कारणं ज्ञातं स्यात्, तर्हि एते राजनीतिक-विवादाः न उत्पन्नाः स्युः।उल्लेखनीयं यत् मतदातृ-सूच्याः मसौदे विषये दाव-आपत्तीनां पञ्जीकरणस्य अन्तिम-दिनाङ्कः सोमवासरे समाप्तः भवति। तथापि श्रवण-प्रक्रिया सप्त-फेब्रुवरी-दिनाङ्कपर्यन्तं प्रवर्तिष्यते। तदनन्तरं निर्वाचन-आयोगस्य पूर्ण-पीठः पश्चिम-बङ्गाल-राज्यस्य भ्रमणं करिष्यति, तस्य पश्चात् विधानसभानिर्वाचनस्य तिथयः घोषिताः भविष्यन्ति इति सम्भावना अस्ति।--------------------------

हिन्दुस्थान समाचार