भारत–पोलैण्डदेशयोः आर्थिक–रक्षा–खानन–सहितं बहुपक्षीय–सहयोग-वर्धनाय चर्चा
नवदेहली, १९ जनवरीमासः (हि.स.)। अद्य नव-देहल्यां स्थिते हैदराबाद-हाउस इति स्थाने भारतस्य विदेश-मन्त्री एस.जयशङ्करः तथा पोलैण्ड-देशस्य उप-प्रधानमन्त्री एवं विदेश-मन्त्री राडोस्लाव: सिकोरस्की इत्येतयोः मध्ये द्विपक्षीय-सम्मेलनम् अभवत्। अस्मिन् समागम
भारत और पौलेंड के विदेश मंत्री


नवदेहली, १९ जनवरीमासः (हि.स.)।

अद्य नव-देहल्यां स्थिते हैदराबाद-हाउस इति स्थाने भारतस्य विदेश-मन्त्री एस.जयशङ्करः तथा पोलैण्ड-देशस्य

उप-प्रधानमन्त्री एवं विदेश-मन्त्री राडोस्लाव: सिकोरस्की इत्येतयोः मध्ये द्विपक्षीय-सम्मेलनम् अभवत्। अस्मिन् समागमे द्विपक्षीय-सम्बन्धानाम् तथा वैश्विक-घटनाक्रमस्य विषये चर्चा जाता। विदेश-मन्त्री जयशङ्करः एक्स (X) इति सामाजिक-माध्यमे अस्य समागमस्य विवरणं प्रकाशितवान्। स: अवदत् यत् उभौ विदेश-मन्त्रिणौ आर्थिक, प्रौद्योगिकी, रक्षा, खननं, जन-जन-सम्बन्ध: तथा बहुपक्षीय-सहयोग-विस्ताराय विचार-विनिमयं कृतवन्तौ। सः भारत–यूरोपीय-संघ-सम्बन्धानां सुदृढीकरणाय पोलैण्ड-देशस्य समर्थनं प्रशंसितवान्।

अस्मिन् सम्मेलने कार्य-योजना २०२४–२८ इत्यस्य पुनरावलोकनं कृतम्, यस्यान्तर्गतं व्यापार-निवेश-विस्तारः, रक्षा-एवं-सुरक्षा-सहयोगः, स्वच्छ-प्रौद्योगिकी तथा डिजिटल-नवाचारः इत्यादिषु क्षेत्रेषु सहयोग-वृद्धेः विषये चर्चितः। इतः पूर्वं विदेश-मन्त्री डा.जयशङ्करः पोलैण्ड-देशस्य उप-प्रधानमन्त्री-विदेश-मन्त्री राडोस्लाव: सिकोरस्की-सह समागमे स्वस्य आरम्भिक-वक्तव्ये उभयोः देशयोः परम्परागत-सौहार्दपूर्ण-सम्बन्धानाम्

उल्लेखं कृतवान्। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदिन: अगस्त २०२४ मासे पोलैण्ड-यात्रायाम् उभयोः देशयोः सम्बन्धाः रणनीतिक-सहभागिता इति स्तरं प्राप्तवन्तः।

सः अवदत् यत् पोलैण्डदेश: मध्य-यूरोप-प्रदेशे भारतस्य प्रमुखः व्यापारिक-सहभाग: अस्ति। अधुना द्विपक्षीय-व्यापारः सप्त-अर्बुद-अमेरिकी-डॉलर-परिमाणं प्राप्तवान्, यदा पोलैण्डदेशे भारतीय-निवेशः त्रि-अर्बुद-अमेरिकी-डॉलरात: अधिकः अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani