हरिनाम्नः गूंजेन भक्तिमयं जातं ज्योति–विष्णु समन्वय क्षेत्रम्
शोणितपुरम् (असमः), 19 जनवरीमासः (हि.स.)। जामुगुरीहाटनगरे स्थिते ज्योति–विष्णु समन्वयक्षेत्रे अधुना हरिनामध्वनिना समग्रः प्रदेशः निनादितः अस्ति। अत्र श्रीमन्त शङ्करदेव सङ्घस्य पञ्चनवतितमाधिवेशनं प्रति व्यापकाः सिद्धतयः महता उत्साहेन क्रियन्ते। एत
हरिनाम्नः गूंजेन भक्तिमयं जातं ज्योति–विष्णु समन्वय क्षेत्रम्


शोणितपुरम् (असमः), 19 जनवरीमासः (हि.स.)।

जामुगुरीहाटनगरे स्थिते ज्योति–विष्णु समन्वयक्षेत्रे अधुना हरिनामध्वनिना समग्रः प्रदेशः निनादितः अस्ति। अत्र श्रीमन्त शङ्करदेव सङ्घस्य पञ्चनवतितमाधिवेशनं प्रति व्यापकाः सिद्धतयः महता उत्साहेन क्रियन्ते।

एतत् भव्यं धार्मिकं सांस्कृतिकं च अधिवेशनं आगामि षष्ठफरवरीतिथेः आरभ्य ज्योति–विष्णु समन्वयक्षेत्रे आयोजयिष्यते। अधिवेशनस्य कारणेन स्थले उत्सवसदृशं वातावरणं निर्मितं दृश्यते तथा सर्वत्र भक्ति आध्यात्मिकभावनयोः अनुभूतिः जायते।

स्वयंसेवकाः श्रद्धालवः च व्यवस्थाकार्येषु संलग्नाः सन्ति, अपरत्र निरन्तरं प्रवर्तमानात् हरिनामसङ्कीर्तनात् सम्पूर्णः प्रदेशः भक्तिरसेन निमग्नः अस्ति। अस्मिन् अधिवेशने राज्यस्य विविधप्रदेशेभ्यः सहस्रशः श्रद्धालूनां सहभागिता सम्भाव्यते।

हिन्दुस्थान समाचार