Enter your Email Address to subscribe to our newsletters

पश्चिम मेदिनीपुरम्, 19 जनवरीमास (हि. स.)।
जिलान्तर्गत दान्तननगरे रविवासरे चतुर्थः “दान्तनमेला” अत्यन्तहर्षोल्लासेन भव्यतया च शुभारम्भं प्राप्तवान्। दान्तन एक ब्लॉक उत्सवसमित्या आयोजितस्य अस्य मेलस्य उद्घाटनं रविवासररात्रौ नववादनसमये सरायबाजारसन्निकृष्टे मैदाने वृहद् सांस्कृतिकसमागमरूपेण कृतम्।
उद्घाटनसमारोहात् पूर्वं दान्तन चिकित्सालयात् मेलाप्राङ्गणपर्यन्तं विशालं वर्णमयं च शोभायात्रा आयोजिता, यया सम्पूर्णः प्रदेशः उत्सववर्णैः सरोबोरः कृतः। सामाजिकसमरसतायाः सन्देशं प्रसारयितुं आयोजितायां अस्यां शोभायात्रायां हिन्दू मुस्लिम ईसाई बौद्ध आदिवासीसमाजानां प्रतिनिधयः एकत्र सहभागितां कृतवन्तः।
उद्घाटनावसरे “अघोरीनृत्यम्” विशेषाकर्षणकेन्द्रं अभवत्, यत् द्रष्टुं विशालः जनसमूहः एकत्र समागतः। अस्मिन् अवसरें प्रसिद्धा अभिनेत्री मेघना हालदार, जिला परिषदस्य सभाधिपतिः प्रतिभा माइती, विधायकौ सुजय हाजरा परेश मुर्मू, मेला समितेः सचिवः मणिशङ्कर मिश्रः इत्यादयः अनेके विशिष्टजनाः उपस्थिताः आसन्।
उल्लेखनीयं यत् अस्य वर्षस्य मेलायोजनसम्बन्धे पुरातननवसमित्योर् मध्ये उत्पन्नः विवादः कोलकाता उच्चन्यायालयपर्यन्तं गतः आसीत्। तथापि पुरातनसमित्या प्रकरणं प्रत्याहृत्य न्यायालयेन आयोजनाय अनुमतिः दत्ता, तदनन्तरं युद्धस्तरेण सिद्धताः सम्पूर्णाः कृताः। पूर्वं अयं मेला षोडशजनवरीतिथौ प्रस्तावितः आसीत्, किन्तु मेदिनीपुरे अभिषेक बनर्जी महाजनसभायाः कारणात् तस्य तिथिः अग्रे स्थापिता।
मेलस्य प्रथमदिने सांस्कृतिककार्यक्रमैः महान् साहित्यकारः बंकिमचन्द्र चटर्जी तथा तेन विरचितस्य कालजयीस्य गीतस्य “वन्दे मातरम्” शताब्दीवर्षः श्रद्धापूर्वकं स्मारितः। स्थानीयकलाकाराणां नृत्यगीतप्रस्तुतयः दर्शकान् अत्यन्तं मोहितवन्ति।
आयोजनसमितेः कथनानुसारं अयं मेला आगामी दशदिनपर्यन्तं प्रवर्तिष्यते, यस्मिन् प्रतिदिनं विविधाः सांस्कृतिकाः सामाजिकाः कृष्याधारिताः प्रदर्शिन्यः आयोजयिष्यन्ते।
---------------
हिन्दुस्थान समाचार