Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 19 जनवरीमास (हि.स.)।
भारतदेशः पोलैण्डदेशेन सह पारस्परिकव्यापारस्य तथा सांस्कृतिकानां जन-जनसम्बन्धानां च संवर्धनस्य इच्छां प्रकटितवान्, परन्तु तस्मिन्नेव काले रूसदेशेन सह व्यापारविषये अमेरिकादेशेन शुल्कारोपणद्वारा अन्यायपूर्वक लक्ष्यीकरणं कृतमिति तथा पोलैण्डदेशेन पाकिस्तानदेशाय दीयमाना सहायता आतंकवादी संरचनां सुदृढीकुर्वन्ती इति विषये स्वकीयम् आपत्तिं स्पष्टतया अवदत्।
विदेशमन्त्री डा० एस जयशंकरः सोमवासरे नूतनदिल्लीस्थे हैदराबादहाउस नाम्नि स्थाने पोलैण्डगणराज्यस्य उपप्रधानमन्त्री तथा विदेशमन्त्री राडोस्लाव सिकोरस्की महोदयेन सह प्रतिनिधिमण्डलस्तरीयां द्विपक्षीयां वार्तां कृत्वा भारतस्य पक्षं स्पष्टतया स्थापितवान्। अतिथिनेताऽपि तस्मिन् विषये सहमतिं दर्शयन् उक्तवान् यत् भारतदेशस्य चयनात्मकं लक्ष्यीकरणं न न्यायोचितम्। सः अपि अवदत् यत् पोलैण्डदेशोऽपि आतंकवादीहिंसायाः पीडितः अस्ति, अतः सः आतंकवादस्य संवर्धनं कदापि समर्थयितुं न शक्नोति।
राडोस्लाव सिकोरस्की महोदयः तथा ऐनी एप्पलबॉम महोदया जनवरिमासस्य सप्तदशदिनात् एकोनविंशतिदिनपर्यन्तं भारतदेशं आगतवन्तौ। तौ सप्तदश तथा अष्टादश जनवरिदिने जयपुरसाहित्योत्सवे सहभागिनौ अभवताम्। ह्यः रात्रौ नूतनदिल्लीं प्राप्तवन्तौ। अद्य बैठकानन्तरं रात्रौ स्वदेशगमनस्य कार्यक्रमः अस्ति।
डा० एस जयशंकरः स्वस्य आरम्भिकवक्तव्ये पोलैण्डदेशस्य उपप्रधानमन्त्रीं तस्य प्रतिनिधिमण्डलं च स्वागतं कृत्वा अवदत्— “वयं तस्मिन् काले मिलामः यदा विश्वे महती उथलपुथल दृश्यते। भिन्नप्रदेशेषु स्थितौ द्वौ देशौ स्वस्वचुनौतिभिः अवसरैश्च युक्तौ सन्तौ विचाराणां दृष्टिकोणानां च आदानप्रदानं निश्चयेन उपयोगी भवति। अस्माकं द्विपक्षीयसम्बन्धाः अपि निरन्तरं विकसिताः सन्ति, तथापि तेषां निरन्तरं पोषणं अपेक्षितम्।”
सः अवदत् यत् भारतपोलैण्डयोः पारम्परिकतया सौहार्दपूर्णाः मैत्रीपूर्णाश्च सम्बन्धाः सन्ति। अद्यतनेषु वर्षेषु उच्चस्तरीयराजनैतिकविनिमयेन सजीवेन आर्थिकेन जनजनसम्बन्धेन च ते विशेषतया लक्षिताः। अगस्तमासे द्विसहस्रचतुर्विंशतितमे वर्षे प्रधानमन्त्री नरेन्द्रमोदीमहोदयस्य पोलैण्डयात्रया द्वयोः देशयोः सम्बन्धाः रणनीतिकसहकारितारूपेण उन्नताः।
अद्य वयं कार्ययोजनाया द्विसहस्रचतुर्विंशति द्विसहस्राष्टाविंशतिपर्यन्तकालस्य समीक्षां करिष्यामः, यया वयं अस्य रणनीतिकसाझेदारीसम्बन्धस्य सम्पूर्णक्षमतां साकारयितुम् इच्छामः। व्यापारनिवेशयोः रक्षा-सुरक्षायाः स्वच्छप्रौद्योगिकीनां डिजिटलनवाचारस्य च क्षेत्रेषु सहयोगवर्धनस्य उपायानपि वयं चर्चयिष्यामः।
विदेशमन्त्री अवदत् यत् पोलैण्डदेशः मध्ययूरोपे भारतस्य प्रमुखेषु व्यापारिकभागीदारेषु एकः अस्ति। अस्माकं द्विपक्षीयव्यापारः सप्त अब्जडालरपरिमाणः अस्ति, यः गतदशके प्रायः द्विशतप्रतिशतवृद्धिं अनुभूतवान्। पोलैण्डदेशे भारतीयनिवेशः त्रयः अब्ज अमेरिकी डालरात् अधिकः अभवत्, येन पोलैण्डनिवासिनां कृते अनेकानि रोजगारावसराणि सृष्टानि। भारतस्य सुदृढा आर्थिकवृद्धिः, विशालः बाजारः निवेशानुकूलनीतयश्च पोलैण्डीयव्यवसायिनां कृते विपुलान् अवसरान् प्रददाति।
सः अवदत्— “वयं गभीरान् सांस्कृतिकान् जनजनसम्बन्धान् अपि प्रोत्साहयिष्यामः। ‘डोब्री महाराज’ इति स्नेहपूर्णा कड़ी अद्यापि अस्ति। गतवर्षे फेब्रुवरीमासे प्रथमजामसाहेबस्मारकयुवाविनिमयकार्यक्रमे पोलैण्डीययुवकैः सह मेलनं मम स्मरणे अस्ति। पोलैण्डदेशे इण्डोलॉजी अध्ययनं समृद्धं भवति, योगाभ्यासश्च लोकप्रियः इति दृष्ट्वा मम हर्षः जायते।”
डा० जयशंकरः अवदत् यत् अद्य अस्माकं वार्तालापे स्वाभाविकतया प्रादेशिकाः वैश्विकाश्च घटनाक्रमाः अन्तर्भविष्यन्ति। विशेषतः अस्माकं स्वस्वपडोसीक्षेत्रेषु मूल्याङ्कनविनिमयः उपयोगी भविष्यति। भवन्तः अपि यात्राकाले अस्मिन् विषये सार्वजनिकतया कथयन्ति।
गतसप्टेम्बरमासे न्यूयॉर्के तथा अस्य जनवरिमासे पेरिसे यूक्रेनसंघर्षस्य तस्य प्रभावस्य च विषये वयं मुक्ततया विचारान् अवदाम। एवं कुर्वन्तः वयं पुनः पुनः अङ्कितवन्तः यत् भारतदेशस्य चयनात्मकं लक्ष्यीकरणं अन्यायपूर्णं अन्यायसिद्धं च अस्ति। विदेशमन्त्री अवदत्— “अहं बहुवारं अङ्कितवान् यत् भारतदेशस्य चयनात्मकं लक्ष्यीकरणं न केवलं अनुचितम् अपि तु सर्वथा निराधारम्। अद्य अपि अहं तत् पुनः उद्घोषयामि।”
सः पुनः अवदत् यत् “उपप्रधानमन्त्री, भवान् अस्माकं क्षेत्रे अपरिचितः नास्ति तथा सीमा पार आतंकवादस्य दीर्घकालिकां समस्यां भवान् अवगतवान् एव। मम आशा अस्ति यत् अस्यां बैठके वयं भवतः क्षेत्रीययात्राविषये अपि चर्चां करिष्यामः। पोलैण्डदेशेन आतंकवादे शून्यसहिष्णुता दर्शनीया, अस्माकं पडेासे आतंकवादीसंरचनानां संवर्धने सहायतां न कर्तव्यम्।”
पोलैण्डदेशस्य उपप्रधानमन्त्री तथा विदेशमन्त्री स्ववक्तव्ये भारतस्य चिन्तां स्वीकृतवान्। सः जयपुरसाहित्योत्सवं “अद्भुतं वैश्विकं सांस्कृतिककार्यक्रमम्” इति वर्णयित्वा तत्र सहभागित्वेन प्रसन्नतां व्यक्तवान्। सः अवदत् यत् सः पूर्वं अपि निजीकार्येण आधिकारिकरूपेण च बहुवारं भारतदेशं आगतवान्, किन्तु रणनीतिकसाझेदारीस्थापनानन्तरं एषा तस्य प्रथमायात्रा अस्ति। सः अवदत्— “वयं प्रगतिं भविष्यदृष्टिं च समीक्षितुम् इच्छामः। वयं उभयौ अपि स्वस्वक्षेत्रेषु अत्यन्तं गतिशीलौ देशौ स्मः, अतः वर्तमानावसरान् अन्वेष्टव्यान् मन्यामहे। वयं उभयौ अपि एकोनविंशतिशताब्द्यां उपनिवेशितौ आस्व, अतः अस्माकं तत्र विशेषसंवेदनशीलता अस्ति।”
राडोस्लाव सिकोरस्की अवदत्— “अहं सीमा पार आतंकवादस्य प्रतिकारस्य आवश्यकता विषये भवता सह पूर्णतया सहमतः अस्मि। यथा भवता श्रुतं स्यात्, पोलैण्डदेशः अद्यतनकाले आगजनीराज्यप्रायोजितआतंकवादस्य प्रयासस्य शिकारः अभवत्, यदा धावमानायाः रेलयानस्य अधः पोलैण्डरेलमार्गः विस्फोटितः आसीत्। सौभाग्यवशात् आतंकवादिनां असफलतया कोऽपि हताहतः न अभवत्। शुल्कारोपणद्वारा चयनात्मकलक्ष्यीकरणस्य अन्यायविषये अपि अहं भवता सह पूर्णतया सहमतः अस्मि। यूरोपे वयं अपि एतत् अलंकृतीभूतं जानिमः तथा मन्यामहे यत् एतेन वैश्विकव्यापारे अस्थिरता वर्धते। वयं अपेक्षामहे यत् भारतदेशः यूरोपे संलग्नः एव तिष्ठेत्। वयं पश्यामः यत् भवान् सर्वत्र यूरोपे दूतावासान् स्थापयति, येन यूरोपीयसङ्घेन सह सम्बन्धेषु भारतस्य गम्भीरता स्पष्टा भवति।”
---
-------------
हिन्दुस्थान समाचार