Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, १९ जनवरीमासः (हि.स.)। भारतीय-सेनायाः व्हाइट-नाइट-विभागेन सोमवासरे विशेषबलस्य गजेन्द्रसिंहाय श्रद्धाञ्जलि: समर्पिता। सः किश्तवाड-जनपदे प्रचलिते ऑपरेशन-त्राशी इति अभियानकाले सिंगपुरा-क्षेत्रे आतंकवाद-विरोधि-अभियानं शौर्येण सञ्चालयन् वीरगतिं प्राप्तवान्।
व्हाइट-नाइट-विभागस्य जनरल-ऑफिसर-कमाण्डिङ्ग् (GOC) तथा सर्वे अधिकाऱिणः १८/१९ जनवरी-रात्रौ कृतं तस्य परम-बलिदानं स्वीकृत्य सैनिकाय गहनं सम्मानं श्रद्धां च व्यक्तवन्तः। विभागेन गजेन्द्र-सिंहस्य असाधारणं साहसं, वीरतां तथा कर्तव्ये अचलां निष्ठां प्रशंसयन् उक्तं यत् तस्य शौर्यं सदा गौरवेण स्मर्यते।
शोक-संतप्त-परिवारेण सह एकात्मतां प्रदर्शयन् व्हाइट-नाइट-विभाग: अवदत् यत् अस्मिन् महा-दुःख-हानि-क्षणे सः परिवारेण सह दृढतया स्थितः अस्ति। जम्मू–कश्मीरस्य किश्तवाड-क्षेत्रे आतंकवादिभिः सह प्रचलिते युद्धे गजेन्द्र-सिंहः वीरगतिं प्राप्तवान्, अन्ये च केचन सैनिकाः आहताः सन्ति, येषां चिकित्सोपचारः अनुवर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता