Enter your Email Address to subscribe to our newsletters

रायपुरम् 19 जनवरीमासः (हि.स.)।
छत्तीसगढराज्यस्य वाणिज्य उद्योग श्रममन्त्रीः लखनलाल देवाङ्गनः अद्य सोमवासरे कोरबानगरे ३.२० कोटिरूप्यकपरिमितानां विविधविकास निर्माणकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति।
निर्धारितकार्यक्रमानुसारं मन्त्री देवाङ्गनः चारपारा कोहड़िया कोरबात् अपराह्ने द्विवादनसमये प्रस्थानं कृत्वा द्विवादनपञ्चदशमिनिटे वार्ड क्रमांक ३० अन्तर्गत मानिकपुरं प्राप्स्यति। तत्र पण्डित रविशङ्करनगरजोनान्तर्गत अष्टशासकीयविद्यालयेषु षट्त्रिंशल्लक्षरूप्यकव्ययेन रसोईशेडनिर्माणकार्यं करिष्यति।
तथैव श्रीदेवाङ्गनः तस्मिन्नेव जोनान्तर्गत द्वादशशासकीयविद्यालयेषु षष्टिलक्षरूप्यकव्ययेन शौचालयनिर्माणकार्यं करिष्यति। वार्ड क्रमांक ३३ मानिकपुरे पञ्चविंशतिलक्षरूप्यकव्ययेन मार्गनिर्माणकार्यं, वार्ड क्रमांक २६ अन्तर्गत दादरमेनरोडात् कृष्णानगरपर्यन्तं पञ्चदशलक्षरूप्यकव्ययेन मार्गनिर्माणकार्यं च करिष्यति।
अन्ते च वार्ड क्रमांक ३४ अन्तर्गत दादररोडात् मानिकपुरमुक्तिधामपर्यन्तं एककोटिचतुरशीतिलक्षरूप्यकव्ययेन कल्वर्टनालानिर्माणकार्यस्य भूमिपूजनं करिष्यति।
हिन्दुस्थान समाचार