मध्यप्रदेशे शीतप्रभावः न्यूनः, द्विदिनं विश्रान्तिः, २२–२३ जनवरी-पश्चात् लघु-वृष्टेः संकेताः
भोपालनगरम्, १९ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य समीपे सक्रिययोः द्वयोः चक्रवातीय-सञ्चरणयोः (साइक्लोनिक-सर्कुलेशन) प्रभावात् प्रदेशे ऋतु-परिवर्तनं दृश्यते। अस्य प्रभावेण प्रदेशस्य पूर्वीय-जनपदेषु मेघाः आच्छादिताः सन्ति। अग्रिम-दिवसेषु प्रदेशस्य केषु
मौसम (फाइल फोटो)


भोपालनगरम्, १९ जनवरीमासः (हि.स.)। मध्यप्रदेशस्य समीपे सक्रिययोः द्वयोः चक्रवातीय-सञ्चरणयोः (साइक्लोनिक-सर्कुलेशन) प्रभावात् प्रदेशे ऋतु-परिवर्तनं दृश्यते। अस्य प्रभावेण प्रदेशस्य पूर्वीय-जनपदेषु मेघाः आच्छादिताः सन्ति। अग्रिम-दिवसेषु प्रदेशस्य केषुचित् भागेषु लघु-वृष्टेः सम्भावना अस्ति। गत-रविवासरे भोपाले, नर्मदापुरम-नगरेषु अन्येषु चल अपि अनेकेषु क्षेत्रेषु आकाशे मेघानाम् उपस्थितिः आसीत्। ऋतु-विभागानुसारम् अग्रिम-दिनद्वयं तीव्र-शीतात् किञ्चित् विश्रान्तिः लप्स्यते, तथापि तदनन्तरं सूक्ष्म-वृष्टिः (बूंदाबांदी) सम्भवति। प्रातःकाले कुहासः (कोहरा) अपि स्थास्यति।

अद्य सोमवासरे प्रातः ग्वालियर-भिण्ड-दतिया-निवाडी-टीकमगढ-छतरपुर -पन्ना-सतना-नगरेषु मध्यम-स्तरस्य कुहासः दृष्टः, भोपाल-इन्दौर-उज्जैन-सहितं द्वादशाधिकेषु जनपदेषु लघु-कुहासः आच्छादितः आसीत्। एतन्मध्ये तापमाने अपि सामान्य-अवनतिः अभवत्।

ऋतु-विभागस्य कथनानुसारं प्रदेशस्य बहुषु भागेषु मेघाच्छादनात् तापमाने आरोहावरोहणं दृश्यते। रविवासरे दिवा-तापमाने वृद्धिः अभवत्। अस्य प्रमुखं कारणं प्रदेशस्य उपरि गच्छन्तौ द्वौ चक्रवातीय-सञ्चरणौ स्तः। तदतिरिक्तं पाकिस्तानस्य उपरि सक्रियः पश्चिमी-विक्षोभः अपि ऋतुं प्रभावितं करोति।

१९ जनवरी तथा २१ जनवरी-रात्रौ द्वौ पश्चिमी-विक्षोभौ उत्तर-पश्चिम-भारते प्रभावं दर्शयितुं शक्नुतः, यस्य प्रभावः मध्यप्रदेशे अपि भविष्यति। एतेन कारणेन २२ तथा २३ जनवरीमास-पश्चात् प्रदेशस्य केषुचित् भागेषु लघु-वृष्टिः सम्भवति। प्रदेशे न्यूनतम-तापमानं शहडोल-जनपदस्य कल्याणपुरे अभिलेखितम्, यत्र ३.७ डिग्री-सेल्सियस आसीत्। खजुराहो-नगरे ५.८ डिग्री, नौगांव-उमरिया-नगरेषु ६ डिग्री, रीवा-नगरे ६.४ डिग्री, पचमढी-नगरे ६.८ डिग्री, मंडला-नगरे ७.२ डिग्री तथा मलाजखंड-नगरे ७.६ डिग्री-सेल्सियस तापमानम् अभिलेखितम्।

प्रदेशस्य पञ्च प्रमुख-नगरेषु न्यूनतम-तापमानं १० डिग्री-सेल्सियस-उपरि आसीत्। भोपाल-नगरे ११ डिग्री, इन्दौर-नगरे १२ डिग्री, ग्वालियर-नगरे १० डिग्री, उज्जैन-नगरे १३ डिग्री तथा जबलपुर-नगरे १०.५ डिग्री-सेल्सियस तापमानम् अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता