Enter your Email Address to subscribe to our newsletters

कोलकाता, 19 जनवरीमासः (हि.स.)।
बाङ्गला चलचित्रजगतः किंवदन्ती अभिनेता, नाटककारः, कविः तथा प्रसिद्ध आवृतिकारः सौमित्रचट्टोपाध्यायः तस्य जयंतीअवसरे पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी तस्मै भावभीनां श्रद्धांजलिं समर्पितवती।
मुख्यमन्त्री सोमवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र (पूर्वं ट्विटरनाम्ना प्रसिद्धे) एकं भावपूर्णं संदेशं प्रकाशितवती, येन सा सौमित्रचट्टोपाध्यायं स्मृतवती। ममता बनर्जी लिखितवती यत् सौमित्रचट्टोपाध्यायसदृशं बहुआयामप्रतिभासम्पन्नं कलाकारं राज्यस्य सर्वोच्चसम्मानेन ‘बंगविभूषण’ इत्यनेन सम्मानयितुं शक्यं जातम्, एतत् तस्याः कृते महान् गौरवविषयः अस्ति।
सा अवदत् यत् सौमित्रचट्टोपाध्यायः बङ्गालस्य सांस्कृतिकपरम्परायाः अमूल्यः स्तम्भः आसीत्। मुख्यमन्त्री स्वीयसंदेशे अपि उल्लिखितवती यत् जीवनस्य अन्तिमकाले तेन सह तस्याः एकः निकटः सम्बन्धः विकसितः अभवत्, तथा तस्य निधनसमये सा स्वयमेव तस्य समीपे उपस्थितासीत्। एषा स्मृतिः तस्याः कृते अत्यन्तं भावनात्मिका अस्ति।
अस्मिन् अवसरॆ मुख्यमन्त्री दिवंगतस्य कलाकारस्य पुत्रीं पौलमीचट्टोपाध्यायं तथा तस्य परिवारस्य अन्यान् सदस्यांश्च प्रति अपि स्वीयाः संवेदनाः सहानुभूतिं च व्यक्तवती।
---------------
हिन्दुस्थान समाचार