भा.ज.पा.-अध्यक्ष-पदाय नितिन-नबीनेन नामाङ्कनं समर्पितम्
नव-देहलीनगरम्, १९ जनवरीमासः (हि.स.)। भारतीय-जनता-पक्षस्य (भा.ज.पा.) राष्ट्रीय-कार्यकारी-अध्यक्षः नितिन-नबीन: सोमवासरे अत्र पक्षस्य केन्द्रीय-मुख्यालये प्रचलितायां निर्वाचन-प्रक्रियायां राष्ट्रीय-अध्यक्ष-पदाय स्व-नामाङ्कन-पत्रं समर्पितवान्। भा.ज.पा.
नितिन नबीन का नामांकन दाखिल करते रक्षा मंत्री राजनाथ सिंह, गृह मंत्री अमित शाह, केंद्रीय मंत्री जेपी नड्डा, नितिन गडकरी सहित पार्टी के कई वरिष्ठ नेता


नितिन नबीन का नामांकन दाखिल करते रक्षा मंत्री राजनाथ सिंह, गृह मंत्री अमित शाह, केंद्रीय मंत्री जेपी नड्डा, नितिन गडकरी सहित पार्टी के कई वरिष्ठ नेता


नव-देहलीनगरम्, १९ जनवरीमासः (हि.स.)। भारतीय-जनता-पक्षस्य (भा.ज.पा.) राष्ट्रीय-कार्यकारी-अध्यक्षः नितिन-नबीन: सोमवासरे अत्र पक्षस्य केन्द्रीय-मुख्यालये प्रचलितायां निर्वाचन-प्रक्रियायां राष्ट्रीय-अध्यक्ष-पदाय स्व-नामाङ्कन-पत्रं समर्पितवान्। भा.ज.पा.पक्षस्य वर्तमान-अध्यक्षः जे.पी.-नड्डा सामाजिक-माध्यम-मञ्चे एक्स इत्यत्र अलिखत् यत् अद्य पक्ष-मुख्यालये राष्ट्रीय-अध्यक्ष-पदस्य निर्वाचनार्थं भा.ज.पा. संसदीय-दलेन सह नितिन-नबीनेन नामाङ्कन-पत्रं पूरितम्।नामाङ्कन-प्रक्रियाकाले रक्षामन्त्री राजनाथ-सिंह:, गृहमन्त्री अमित-शाह:, केन्द्रीय-मन्त्री जे.पी.-नड्डा, नितिन-गडकरी इत्येतै: सह पक्षस्य बहवः वरिष्ठ-नेतारः उपस्थिताः आसन्। तदतिरिक्तं विविध-राज्येभ्यः मुख्यमन्त्रिणः, प्रदेश-एककानां प्रमुखाश्च मुख्यालयं प्राप्तवन्तः तथा अस्यां प्रक्रियायां सम्मिलिताः अभवन्।

पक्षीय-सूत्राणां मते नितिन-नबीन: एव राष्ट्रीय-अध्यक्ष-पदस्य एकमात्रं प्रत्याशी अस्ति। अतः तस्य निर्विरोध-निर्वाचनं निश्चितम् इति मन्यते। पूर्वमेव गुजरात-राज्यस्य मुख्यमन्त्री भूपेन्द्र-पटेल:, छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णु-देव-साय: इत्येताभ्यां सह विविध-राज्याणां नेतारः नितिन-नबीनस्य समर्थनार्थं स्व-समर्थन-पत्राणि समर्पितवन्तः।

उल्लेखनीयम् अस्ति यत् भा.ज.पा.पक्षस्य स्थापना ०६ एप्रिल-मासे १९८० तमे वर्षे अभवत्। अद्यावधि पक्षस्य राष्ट्रीय-अध्यक्ष-पदे अटल-बिहारी-वाजपेयी, एल.के.-आडवाणी, मुरली-मनोहर-जोशी, कुशाभाऊ-ठाकरे, बङ्गारू-लक्ष्मण:, एम्.-वेंकैया-नायडू, राजनाथ-सिंह, नितिन-गडकरी, अमित-शाह: तथा जे.पी.-नड्डा इत्येते महानुभावाः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani