Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 जनवरीमासः (हि.स.)। नरेन्द्र मोदी सोमवासरे एकं प्रेरणादायकं संस्कृतसुभाषितं साझा कृतवान्, येन सः देशवासीन् विशेषतः युवाजनान् कर्मणि, परिश्रमे च निरन्तरप्रयासे प्रेरितवान्। अस्य सुभाषितस्य माध्यमेन सः स्पष्टं अवदत् यत् जीवने सफलता च समृद्धिश्च केवलं सक्रियतया पुरुषार्थेन च एव लभ्यते।
प्रधानमन्त्रिणा एक्स-माध्यमे एतत् सुभाषितं प्रकाशितम्—
“अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च। प्राप्यते फलमुत्थानाल्लभते चार्थसम्पदम्॥”
अस्य भावार्थः अस्ति यत् उद्यमाभावे पुरुषः न केवलं भविष्यसम्भावनाः नश्यति, अपि तु पूर्वं प्राप्ताः उपलब्धयः अपि विनश्यन्ति। परन्तु निरन्तरप्रयासेन उत्थानेन च एव सफलता, फलम्, आर्थिकसमृद्धिश्च प्राप्यते।
प्रधानमन्त्रिणः एषः सन्देशः विशेषरूपेण युवकेभ्यः, श्रमिकेभ्यः, उद्यमिभ्यः तथा राष्ट्रनिर्माणे संलग्नेभ्यः सर्वेभ्यः नागरिकेभ्यः आत्मनिर्भरभावं निरन्तरकर्मशीलतां च प्रति प्रेरणां ददाति।
---------------
हिन्दुस्थान समाचार