प्रधानमन्त्री मोदी स्वतंत्रता-संग्राम-योद्ध्र्या: पार्वतीगिरी इत्यस्या: जन्म-शताब्दी-अवसरे श्रद्धाञ्जलिम् अर्पितवान्
नवदेहली, १९ जनवरीमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी सोमवासरे स्वतंत्रता-संग्राम-योद्ध्रे पार्वती-गिर्यै तस्याः जन्म-शताब्दी-अवसरे श्रद्धाञ्जलिम् अर्पितवान्। प्रधानमन्त्रिणः कथनानुसारं स्वतंत्रता-संग्रामे तस्याः योगदानम् अत्यन्तं प्रशंसनीयम्
स्वतंत्रता सेनानी पार्वती गिरि (फाइल फोटो)।


नवदेहली, १९ जनवरीमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र-मोदी सोमवासरे स्वतंत्रता-संग्राम-योद्ध्रे पार्वती-गिर्यै तस्याः जन्म-शताब्दी-अवसरे श्रद्धाञ्जलिम् अर्पितवान्। प्रधानमन्त्रिणः कथनानुसारं स्वतंत्रता-संग्रामे तस्याः योगदानम् अत्यन्तं प्रशंसनीयम् आसीत्।

प्रधानमन्त्री नरेन्द्र-मोदी एक्सपटले लिखितां सूचनां प्रसार्य पार्वती-गिर्याः जन्म-शताब्दी-अवसरे श्रद्धाञ्जलिं समर्पयन् अवदत् यत् औपनिवेशिक-शासनस्य समापनार्थं प्रचलिते आन्दोलनमध्ये सा प्रशंसनीयां भूमिकां निर्वहन्ती आसीत्। सामुदायिक-सेवा, स्वास्थ्य-सेवा, महिला-सशक्तीकरणं तथा संस्कृति-क्षेत्रेषु कार्यं कर्तुं तस्याः उत्कटः उत्साहः उल्लेखनीयः अस्ति।

प्रधानमन्त्री मोदी २८ दिसम्बर-दिने स्वस्य मासिक-रेडियो-कार्यक्रमे मन की बात इत्यस्मिन् अपि पार्वती-गिर्याः उल्लेखं कृतवान्। एक्स इत्यस्मिन् प्रकाशितायां सूचनायां सः अवदत् यत् आगामि-मासे पार्वती-गिर्याः जन्म-शताब्दी समाचरिष्यते, या स्वतंत्रता-आन्दोलनमध्ये महत्त्वपूर्णं योगदानं कृतवती, अपि च निर्धनानां वञ्चितानां च उत्थानाय विशेषं ध्यानं दत्तवती।

उल्लेखनीयं यत् पार्वती-गिरिः (१९२६–१९९५) ओडिशा-राज्यस्य प्रमुखा स्वतंत्रता-संग्राम-योद्ध्री समाज-सुधारिका च आसीत्। सा “पश्चिम-ओडिशाराज्यस्य मदर-टेरेसा” इति नाम्ना प्रसिद्धा आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता