Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 जनवरीमासः (हि.स.) ।
मध्यप्रदेशस्य धारानगरस्थे भोजशालाविषये प्रवृत्ते विवादे हिन्दुपक्षेण उच्चतमन्यायालये नूतना याचिका समर्पिता अस्ति। अस्यां याचिकायां आगामिनि शुक्रवासरे, यः वसन्तपञ्चमीति प्रसिद्धः, तस्मिन् दिने मुस्लिमसमुदायस्य जनानां नमाजपाठस्य निषेधः कर्तव्य इति, तथा केवलं हिन्दूनां मातृसरस्वत्याः पूजा अर्चना कर्तुं अनुमतिः दातव्या इति प्रार्थना कृता अस्ति।
वस्तुतः भारतीयपुरातत्त्वसर्वेक्षणेन सप्तमे एप्रिल् द्विसहस्रत्रयोविंशतितमे वर्षे निर्गत आदेशानुसारं भोजशालायां हिन्दूनां कृते मङ्गलवासरे वसन्तपञ्चम्यां च पूजा अनुमन्यते, अपि च मुस्लिमसमुदायस्य जनानां कृते शुक्रवासरे मध्याह्ने एकवादनात् त्रिवादनपर्यन्तं नमाजपाठस्य अनुमतिः अस्ति। किन्तु तस्मिन् आदेशे स्पष्टतया न उक्तं यत् यदि वसन्तपञ्चमी शुक्रवासरे भवेत् तर्हि किम् करणीयम्।
वकीलेन विष्णुशंकरजैनेन समर्पितायां याचिकायां कथ्यते यत् एतत् मातृसरस्वत्याः मन्दिरं परमारवंशीयेन राज्ञा भोजेन एकादशशताब्द्यां निर्मितम्। न्यायालयस्य आदेशेन सम्पन्ने सर्वेक्षणे अपि अत्र मन्दिरस्य अस्तित्वं प्रमाणितम्। अतः भारतीयपुरातत्त्वसर्वेक्षणस्य आदेशः स्वयमेव दोषपूर्णः अस्ति। विशेषतः वसन्तपञ्चमी तु मातृसरस्वत्याः पूजा अर्चनायाः पावनः दिवसः अस्ति। तस्मिन् दिने हवनपूजामहाआरतीप्रभृतयः आवश्यकाः धार्मिककर्माणि संकल्पात् पूर्णाहुतिपर्यन्तं निर्विघ्नेन सम्पन्नानि भवन्तु। गर्भगृहस्य पवित्रता अपि संरक्षिता भवेत्। अतः तस्मिन् दिने नमाजपाठस्य अनुमतिः न दातव्या इति याचिकायां निवेदितम्।
---------------
हिन्दुस्थान समाचार