Enter your Email Address to subscribe to our newsletters

चेन्नईनगरम्, १९ जनवरीमासः (हि.स.)। तमिलनाडु-विधानसभायाः अधिवेशनं श्वः (मङ्गलवासरे) प्रातः ९.३० वादने आरभ्स्ययते। व्ययस्य प्रथम-सत्रं परम्परागत-रूपेण राज्यपालस्य अभिभाषणेन आरभ्स्ययते। गतवर्षे विधानसभायाः अधिवेशनेषु राज्यपालस्य अभिभाषणसन्दर्भे उत्पन्नं विवादं स्मृत्वा सर्वेषां दृष्टिः अस्मिन् अधिवेशन-सत्रे विशेषा भविष्यति। विधानसभायाः निर्वाचनस्य कारणेन एतदभिभाषणम् अधिवेशनं च अत्यन्तं महत्त्वपूर्णं मन्यते।
पूर्व-निर्धारित-कार्यक्रमानुसारं, राज्यपालः आर.एन.रविः प्रातः ९.२५ वादने सचिवालयम् आगमिष्यति। तदा वाद्ययंत्रसहितम् आरक्षीसंचलनमध्ये तस्मै सम्मानं दास्यते। ततः अभिभाषणं दातुं विधानसभायां आगमनकाले राज्यपालस्य परम्परागत-स्वागतं भविष्यति। विधानसभा-अध्यक्षः अप्पावुः तथा सचिवः तं सदनस्य अन्त: नेतुम् आगमयिष्यत:। राज्यपालः अध्यक्ष-स्थाने उपवेशयिष्यते, विधानसभा-अध्यक्षः समीपस्थ-स्थाने उपवेक्ष्यति। सर्वे सदस्याः उत्थाय आदौ “तमिल-ताई-वास्थु” (तमिल-मातु: वन्दना) गायनं करिष्यन्ति। ततः राज्यपालः अभिभाषणम् आंग्लभाषायां दास्यति। अभिभाषणस्य तमिलानुवादं विधानसभा-अध्यक्षः पठिष्यति। अध्यक्षस्य पठिताभिभाषणानन्तरं राष्ट्रगानं वाद्यते, ततः तस्य दिनस्य विधानसभायाः कार्यवाही समाप्ता भविष्यति।
अनन्तरं विधानसभा-अध्यक्षस्य कक्षे कार्य-सलाहकार-समितेः सभा आयोजयिष्यते। अस्यां सभायां सत्रस्य कालावधिः, चर्चायाः विषयाः, तथा निर्णायक-विषया: निश्चिताः भविष्यन्ति। एतां सूचनां विधानसभा-अध्यक्षः अप्पावुः प्रदास्यति।
वस्तुतः वर्षे २०२३ मध्ये राज्यपालः आर.एन.रविः सर्वकारात् प्रदत्तम् अभिभाषणं यथावत् न पठित्वा, तस्मिन् किञ्चित् संशोधनं कृत्वा पठितवान्। ततः विधानसभायाः नियमानुसारेण तम् अभिभाषणं समापयित्वा, अनन्तरम् अध्यक्षः अप्पावुः तमिलभाषायां तं पठितवान्। सर्वकारस्य मूल-प्रस्तावितम् अभिभाषणम् एव सदनस्य कार्यवाहीमध्ये अभिलेखीकृतम्। अनन्तरं वर्षे २०२४ तथा २०२५ मध्ये राज्यपालः अभिभाषण-पठनात् वंचनं कृतवान्, कारणं सः उक्तवान् यत् तस्य याचनानुसारं राष्ट्रगानं कार्यवाही-आरम्भे न वादितम्। विधानसभा-अध्यक्षस्य अप्पावुः इत्यस्य कथनानुसारम् अस्य वर्षस्य प्रथमम् अधिवेशनं २० जनवरीमासे प्रातः ९.३० वादने आरभ्स्यते। तस्मिन दिने प्रथमम् अभिभाषणं राज्यपालः आर.एन.रविः दास्यति। विधानसभा-नियमेन राष्ट्रगानाय राज्यपालस्य प्रदत्त-सूचनानुसारम् अद्यापि किंचित् परिवर्तनं न कृतम्।
विधानसभा-निर्वाचनस्य समीपतया कारणेन एतत् अधिवेशनम् अत्यन्तं महत्त्वपूर्णं मन्यते। सूचनानुसारं सत्तारूढ-दलं तथा सर्वकारं नीचै: कर्तुम् एआईएडीएमके तथा भाजपायोजना: क्रियन्ते, ततः प्रतिकारार्थं मुख्यमन्त्री एम.के.स्टालिनेन सहितं मन्त्री तथा सर्वकारः पूर्णतया सज्ज: अस्ति। अनेन विधानसभायाः अधिवेशनं राजनीतिक-सामर्थ्येन गहनं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता