सुशीला कार्की सर्वकारस्य द्वौ मंत्रिणौ दास्यतः त्यागपत्रं, निर्वाचनाय सज्जा
काठमांडूः, 19 जनवरीमासः (हि.स.)। सुशीलाकार्कीसर्वकारस्य द्वौ मन्त्री अद्य स्वपदात् त्यागपत्रं दातुं गच्छतः। आगामिनि पञ्चमे मार्चमासे आयोजिते प्रतिनिधिसभानिर्वाचने प्रत्याशिनौ भवितुं सिद्धतां कुर्वन्तौ एतौ मन्त्री निर्वाचनार्थं त्यागपत्रं दातुं निर
बब्लु गुप्त और जगदीश खरेल


काठमांडूः, 19 जनवरीमासः (हि.स.)।

सुशीलाकार्कीसर्वकारस्य द्वौ मन्त्री अद्य स्वपदात् त्यागपत्रं दातुं गच्छतः। आगामिनि पञ्चमे मार्चमासे आयोजिते प्रतिनिधिसभानिर्वाचने प्रत्याशिनौ भवितुं सिद्धतां कुर्वन्तौ एतौ मन्त्री निर्वाचनार्थं त्यागपत्रं दातुं निर्णयं कृतवन्तौ। त्यागपत्रं दातृणां मध्ये सञ्चारसूचनाप्रौद्योगिकीमन्त्री जगदीशखरेलः तथा युवाखेलकूदमन्त्री बब्बूगुप्तः सम्मिलितौ स्तः। स्वीयत्यागपत्रविषये ताभ्यां प्रधानमन्त्रिणीं सुशीलाकार्कीम् अपि सूचितम् अस्ति।

बब्बूगुप्तेन स्वस्य सामाजिकमाध्यमे एतद्विषये सूचना दत्ता अस्ति। तेन लिखितं यत् मङ्गलवासरे नामाङ्कनपत्रं समर्पयितुं सः अद्यैव प्रधानमन्त्रिणः समक्षं स्वीयं त्यागपत्रं दास्यति।

अपरं च सूचना मन्त्री जगदीशखरेलः अपि स्वत्यागपत्रस्य पुष्टि कृतवान्। सः अवदत् यत् राष्ट्रियस्वतन्त्रपक्षतः निर्वाचनं लडितुं अद्य सः मन्त्रीपदात् त्यागपत्रं दास्यति। मन्त्रालये किञ्चन आवश्यकं कार्यं समाप्य सः प्रधानमन्त्रिनिवासं गत्वा स्वपदात् त्यागपत्रं समर्पयिष्यति।

सूचितं च यत् एतयोः अतिरिक्तं अन्यः अपि एकः मन्त्री निर्वाचनस्य प्रत्याशी भवितुं त्यागपत्रं दातुं शक्नोति। यतः एतौ उभौ राष्ट्रियस्वतन्त्रपक्षतः प्रत्याशिनौ भवितुम् उद्यतौ स्तः, अतः त्यागपत्रस्य निर्णयं कृतवन्तौ।

अस्याः पूर्वमेव उज्यालोनेपालपक्षस्य अध्यक्षः तथा ऊर्जा, शहरीविकास एवं भौतिकअवसंरचनामन्त्री कुलमानघिसिंगः अपि त्यागपत्रं दत्तवान्। घिसिंगेन अपि निर्वाचनस्य प्रत्याशी भवितुं त्यागपत्रं दत्तम्।

---------------

हिन्दुस्थान समाचार