Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, १९ जनवरीमासः (हि.स.)। वाराणसी-नगरस्य कैंट-क्षेत्रस्य विधायकः सौरभ-श्रीवास्तवः स्वस्य पितुः तथा पूर्व-विधायकस्य स्वर्गीयस्य हरिश्चन्द्र-श्रीवास्तवस्य (हरीश-जी) एकादशमीं पुण्यतिथिं “अपना-घर-आश्रम” इत्यस्मिन् स्थले अशक्त-वृद्धजनान् एककालिकं सामूहिक-भोजनं कारयित्वा समाचरितवान्। विधायकः सौरभ-श्रीवास्तवः अवदत् यत् पूज्यः पिताश्रीः यत् कार्यं कर्तुम् अत्यधिकं सुखम् अनुभूतवान्, तत् समाजस्य अन्तिम-सोपाने स्थितान् जनान् समाजस्य मुख्य-धारायां संयोक्तुं तथा आवश्यकतावद्भ्य: अन्न-वस्त्र-भोजनादीनां व्यवस्थां कर्तुम् आसीत्।
पिताश्री: आजीवनं “नर-सेवायामेव नारायण-सेवा” इति भावनां मन्यते स्म।वञ्चित-निर्धन-जनेभ्य: सप्रेम भोजनदानं तैः सह भोजनकरणं च तस्य स्वभावे अन्तर्भूतम् आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता