Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 19 जनवरीमासः (हि.स.)।
बागेश्वरस्य ऐतिहासिके उत्तरायणीमेलके अस्मिन् वर्षे परम्परया सह विकासस्य अपि झलकः द्रष्टुं लभ्यते। जिलाप्रशासनस्य विभिन्नविभागानां स्टालाः मेले आकर्षणस्य केन्द्राणि जाताः सन्ति। एतेषां स्टालानां माध्यमेन सामान्यजनानां कृते शासकीययोजनानां विभागीयगतिविधीनां स्वरोजगारसम्बद्धानां च सूचनाः प्रदीयन्ते। एतेषु स्टालेषु बहुसंख्यया जनाः आगत्य योजनानां विषये जानकारीं गृह्णन्ति।
उत्तरायणिमेलापके उद्यानविभागस्य स्टालाः विशेषतया आकर्षणस्य केन्द्राणि सन्ति। अत्र प्रदर्शिता दशदशमांशपञ्च किलोग्रामभारयुक्ता मूली तथा अष्टदशमांशपञ्च फुट् उन्नतः शिमलामरिचस्य पादपः जनानां मध्ये चर्चायाः विषयः अभवत्। मेलार्थिनः एतानि अनोखानि शाकानि दृष्ट्वा विस्मिताः अभवन् तथा तेषां विषये जिज्ञासां प्रकटयन्तः दृश्यन्ते।
अत्र ताम्रनिर्मितानां विविधानां उत्पादानाम् अपि दर्शनं कर्तुं शक्यते येषां निर्माणं शिल्पिनः स्वहस्ताभ्याम् एव कुर्वन्ति। तथैव कृषकाणां विभिन्नाः उत्पादाः अपि नानाविधेषु स्टालेषु प्रदर्शिताः सन्ति।
सहायकः उद्यानाधिकारी कमलेशजोशी अवदत् यत् उत्तरायणिमेलकस्य माध्यमेन विभागेन कृषकाणां सामान्यजनानां च कृते विभिन्नशासकीययोजनानां लाभः प्रदीयते। सह एव उन्नताः कृषिपद्धतयः शाकउत्पादनं फलोत्पादनं आधुनिककृषिप्रणाल्यः च तेषां विषये जानकारी अपि दीयते।
कृषकः चन्द्रशेखरपाण्डे अपि अवदत् यत् तेन स्वयम् उत्पादितानां औषधीयवनस्पतीनां उत्पादाः हरितचायः लेमनचायः इत्यादयः मेले आनिताः सन्ति येषां जनैः उत्तमं स्वागतं क्रियते। एतेन सह सः जनान् जागरूकान् अपि करोति।
मेलके हस्तशिल्पताम्रशिल्पसम्बद्धाः कारीगराः स्वपरम्परागतकलायाः उत्कृष्टं प्रदर्शनं कृतवन्तः। अपयोग्यकाष्ठात् निर्मिताः उपयोग्याः वस्तूनि अथवा हस्तनिर्मितानि ताम्रपात्राणि प्रत्येकः स्टालः स्थानीयकौशलस्य आत्मनिर्भरभारतस्य च सजीवं चित्रं प्रस्तुतयति।
अपयोग्यकाष्ठात् उत्तमानि उत्पादानि निर्मातुं कुशलः हस्तशिल्पकारी अवदत् यत् मेले तस्य उत्तमः लाभः भवति तथा जनैः तस्य उत्पादाः प्रशंसिताः सन्ति। उत्तरायणिमेले बोरग्रामात् स्वीयान् ताम्रनिर्मितान् उत्पादान् आनयित्वा आगतः ताम्रशिल्पी शिवलालः अपि अवदत् यत् सः स्वहस्तनिर्मितान् ताम्रउत्पादान् एव मेले आनितवान्। मेलागमनस्य मुख्यः उद्देश्यः अस्माकं कला जनानां समीपं गच्छेत् तथा तस्याः समुचितां परिचयं लभेत इति।
एवं उत्तरायणिमेला न केवलं सांस्कृतिकः उत्सवः अस्ति अपि तु कृषकाणां कारीगराणां शिल्पिनां च कृते नूतनां परिचयम् आर्थिकं सम्बलञ्च दातुं समर्थः दृढः मञ्चः अपि सिद्धः भवति।
---
हिन्दुस्थान समाचार