Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १९ जनवरीमासः (हि.स.)। उत्तरप्रदेश-राज्यस्य राजधान्यां लखनऊ-नगरे ८६तमं अखिल-भारतीय-पीठासीन-अधिकारी-सम्मेलनम् (AIPOC) तथा भारतस्य विधानसभानां विधानपरिषदां च सचिवानां ६२तमं सम्मेलनम् अद्य १९ जनवरीतः आरभ्य २३ जनवरीपर्यन्तं आयोजितं भविष्यति।
उत्तरप्रदेश-विधानसभायाम् आयोजितस्य अस्य महत्त्वपूर्णस्य राष्ट्रीय-कार्यक्रमस्य आतिथ्यम् उत्तरप्रदेश-विधानमण्डलेन क्रियते। अद्य विधान-भवने सम्मेलनस्य विधिवत् उद्घाटनं भविष्यति। सम्मेलन-अन्तर्गतं देशस्य विविध-राज्येभ्यः आगताः पीठासीन-अधिकारिणः, सचिवाः तथा गणमान्य-प्रतिनिधयः विधायी-प्रक्रियासु, संसदीय-परम्परासु, सदन-सञ्चालने, सुशासने तथा समसामयिक-विधायी-विषयेषु विस्तृतं विचार-विमर्शं करिष्यन्ति।
अस्मिन् राष्ट्रीय-स्तरीय-सम्मेलने लोकसभा-अध्यक्षः ओम्-बिरला, उत्तरप्रदेश-राज्यपालः आनन्दीबेन-पटेल:, मुख्यमंत्री योगी-आदित्यनाथः, राज्यसभा-उपसभापतिः हरिवंश-नारायण-सिंहः, विधानपरिषदः सभापतिः कुँवर-मानवेन्द्र-सिंहः, विधानसभा-अध्यक्षः सतीश-महाना इत्येतै: च सह देशस्य विभिन्न-राज्यानां विधानमण्डलानां पीठासीन-अधिकारिणः, सभापतयः, अध्यक्षाः, सचिवाश्च सहभागितां कुर्वन्ति।
उद्घाटन-सत्रे संवैधानिक-पदे आसीनानां महानुभावानाम् उपस्थितौ प्रदर्शिनी-उद्घाटनं, समूह-चित्र-ग्रहणं तथा विविध-समितीनां सभा: आयोजयिष्यन्ते। २० जनवरी-दिने पूर्ण-सत्रे कार्यसूची-बिन्दुषु गहनं विचार-विमर्शं भविष्यति। तदनन्तरम् उत्तरप्रदेशस्य समृद्ध-सांस्कृतिक-परम्परा-आधारिताः कार्यक्रमाः अपि आयोजयिष्यन्ते।
२१ जनवरी-दिने समापन-सत्रे विभिन्न-संवैधानिक-पदाधिकारिणां प्रेरणादायकानि सम्बोधनानि भविष्यन्ति। सम्मेलनकाले विधायी-परम्परासु, संसदीय-नवाचारेषु तथा लोकतान्त्रिक-मूल्य-सुदृढीकरण-विषयेषु सार्थकः संवादः स्थापयिष्यते। सम्मेलनानन्तरं २२ जनवरी-दिने सहभागिनां कृते अयोध्या-धाम-भ्रमण-कार्यक्रमः निर्धारितः अस्ति, तथा २३ जनवरी-दिने प्रतिनिधीनां प्रस्थानं भविष्यति।
विधानसभा-अध्यक्षः सतीश-महाना अवदत् यत् एतत् सम्मेलनं संसदीय-लोकतन्त्रम् अधिक-सुदृढीकरणाय, राज्येषु अनुभव-विनिमयाय, तथा विधायी-संस्थासु समन्वय-वर्धनाय महत्त्वपूर्ण: प्रयत्न: भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता