मतदातृसूच्यां द्वितीयं नाम एतावता नवलक्षात् अधिकम् आवेदनम्
कोलकाता, 19 जनवरीमासः (हि.स.)। पश्चिमबङ्गालराज्ये प्रवर्तमानस्य मतदातृ-सूच्याः विशेषगहनपुनरीक्षणस्य काले पुनः नामसमावेशनार्थं बहुसंख्यकानि आवेदनानि आगतानि सन्ति। निर्वाचनायोगस्य प्रदत्तानुसारं अद्यावधि नवलक्षाणि अष्टाविंशतिः अधिकशतं अष्टाविंशतिः (९
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, 19 जनवरीमासः (हि.स.)। पश्चिमबङ्गालराज्ये प्रवर्तमानस्य मतदातृ-सूच्याः विशेषगहनपुनरीक्षणस्य काले पुनः नामसमावेशनार्थं बहुसंख्यकानि आवेदनानि आगतानि सन्ति। निर्वाचनायोगस्य प्रदत्तानुसारं अद्यावधि नवलक्षाणि अष्टाविंशतिः अधिकशतं अष्टाविंशतिः (९,१२८) जनाः मतदाता-सूच्यां नवनामसमावेशनाय आवेदनं कृतवन्तः। एषा स्थिति जनसामान्यस्य सक्रियभागीदारीं स्पष्टतया दर्शयति।

आयोगस्य वक्तव्येन, षोडशे दिसम्बरमासे प्रारूपमतदाता-सूच्याः प्रकाशनात् पूर्वं त्रिलक्षाणि एकत्रिंशतिसहस्राणि पञ्चसप्ततिः (३,३१,०७५) जनाः नामसमावेशनाय आवेदनानि अकुर्वन्। ततः प्रारूपसूच्याः प्रकाशनानन्तरं एकस्मिन् मासे पञ्चलक्षाणि नवपञ्चाशतिसहस्राणि त्रिपञ्चाशतिः (५,५९,०५३) नवानि आवेदनानि समुपस्थितानि। एवं समग्रतया आवेदनानां संख्या नवलक्षाणि एकशतं अष्टाविंशतिः (९,१२८) इति अभवत्।

निर्वाचनायोगेन पूर्वमेव स्पष्टीकृतं यत् प्रारूपसूच्याः प्रकाशनानन्तरं मतदातॄणां राजनैतिकदलानां च नामसमावेशनाय आपत्तिनिवेदनाय च अवसरः प्रदीयते। तदनुसारेण पश्चिमबङ्गाले आवेदनानां आपत्तीनां च निवेदनस्य अन्तिमतिथिः अद्य दिसम्बरमासस्य एकोनविंशतितमः दिनाङ्कः निश्चितः अस्ति। अस्याः तिथेः अनन्तरं अन्तिममतदाता-सूच्याः प्रकाशनपर्यन्तं नवानि आवेदनानि न स्वीकरिष्यन्ते।

यद्यपि आवेदनप्रक्रिया समाप्तिप्रायाः अस्ति, तथापि आयोगेन सूचितं यत् श्रवणप्रक्रिया सप्तमे फेब्रुवरीमासे पर्यन्तं प्रवर्तिष्यते। ये मतदातारः श्रवणार्थं आहूयिष्यन्ते, ते आवश्यकदस्तावेजान् अन्तर्जालमाध्यमेन अपि समर्पयितुं शक्नुवन्ति। अनेन बहिर्देशस्थाः अन्यत्र कार्यनिमित्तं निवसन्तश्च मतदातारः अपि सुविधां प्राप्नुवन्ति।

विशेषगहनपुनरीक्षणस्य अन्तर्गतं गृहे गृहे गत्वा गणनाफॉर्मपूरणकार्यं अपि तीव्रतया क्रियमाणं अस्ति। निर्वाचनायोगस्य मतम् अस्ति यत् बहुसंख्यकानां आवेदनानां आगमनात् मतदाता-सूची अधिका शुद्धा अद्यतना च भविष्यति, येन आगामिनिषु निर्वाचनकालेषु पारदर्शिता विश्वासार्हता च सुनिश्चिता भविष्यतः।

हिन्दुस्थान समाचार