Enter your Email Address to subscribe to our newsletters

बक्सरः, ०२ जनवरीमासः (हि.स.)।चौसा–प्रखण्डस्य प्रतिभावान् वॉलीबॉल–क्रीडकः विशाल–कुशवाहा स्वपरिश्रमेण निष्ठया च राष्ट्रिय–स्तरं प्राप्य सम्पूर्णं जनपदं गौरवान्वितवान्। राष्ट्रिय–वॉलीबॉल–प्रतियोगितायै पटना–दलात् तस्य चयन–समाचारं श्रुत्वा चौसा–प्रखण्डे समग्रे च बक्सर–जनपदे हर्ष–उत्साह: प्रसृतः।विशाल–कुशवाहा-इत्यनेन स्वकीय–क्रीडा–यात्रा ग्राम–स्तरात् विद्यालय–स्तरात् च आरब्धा। सः चौसा–आदर्श–उच्च–विद्यालये दल–नायकत्वं कुर्वन् जनपद–स्तरे राज्य–स्तरे च उत्कृष्टं प्रदर्शनं कृतवान्, यस्य फलस्वरूपम् अद्य तस्य राष्ट्रियस्यरे चयनमभवत्।राष्ट्रीय–दले चयनानन्तरं स्व–गृहनगरं प्रत्यागते विशाल–कुशवाहा-इत्यस्य ग्रामीणैः दुन्दुभिवाद्यैः पुष्प–शमालाभिश्च सह भव्यं स्वागतं कृतम्। अस्मिन् अवसरे बिहार–शासनस्य राज्य–अनुसूचित–जनजाति–आयोगस्य सदस्यः राजू–खरवारः तं सम्मानयन् अवदत् यत् अनुशासनं निरन्तर–अभ्यासश्चैव सफलतायाः प्रमुखं सूत्रम् अस्ति।उल्लेखनीयं यत् विशाल–कुशवाहा साधारण–परिवारे जन्म प्राप्तवान्। तस्य पिता सोना–सिंह–कुशवाहा शाक–उत्पादनं कुर्वन् कृषकः सन् कुटुम्ब–पोषणं करोति। विशालस्य एषा सफलता क्षेत्रस्य यूनां कृते क्रीडां जीवन–वृत्तिरूपेण स्वीकर्तुं नूतनां प्रेरणां प्रददाति।
हिन्दुस्थान समाचार / Dheeraj Maithani