भूकैलाश कल्याण केंद्रं गंगासागर यात्रिभ्यः शुभारब्धं सेवाभियानम्
कोलकाता, 02 जनवरीमासः (हि.स.)। गङ्गासागरं गच्छतां तीर्थयात्रिकाणां सुविधायै भू–कैलाश–कल्याण–केन्द्रेण बाबुघाटस्थिते आउट्राम्–घट्टे सेवा–कार्यं आरब्धम्। अत्र स्थापिते शिविरे श्रद्धालूनां कृते भोजनव्यवस्था प्राथमिक–सुविधानां च समुचितो विनियोगः कृतः।
भूकैलाश


भूकैलाश


कोलकाता, 02 जनवरीमासः (हि.स.)।

गङ्गासागरं गच्छतां तीर्थयात्रिकाणां सुविधायै भू–कैलाश–कल्याण–केन्द्रेण बाबुघाटस्थिते आउट्राम्–घट्टे सेवा–कार्यं आरब्धम्। अत्र स्थापिते शिविरे श्रद्धालूनां कृते भोजनव्यवस्था प्राथमिक–सुविधानां च समुचितो विनियोगः कृतः।

भू–कैलाश–कल्याण–केन्द्रस्य सामान्यसचिवः सीताराम–राय–नामकः उक्तवान्—नूतनवर्षारम्भादेव अत्र बहुसंख्ये श्रद्धालवः आगच्छन्ति भोजन–सेवायाः लाभं च प्राप्नुवन्ति। स अवदत्—एतत् सेवा–कार्यं सप्त जनवरीपर्यन्तं प्रवर्तिष्यते; ततः परं गङ्गासागर–मेलापकेऽपि शिविरमाध्यमेन सेवाः निरन्तरं दास्यन्ते।

सीताराम–रायः दीर्घकालात् सामाजिक–सेवायां संलग्नः अस्ति। गङ्गासागर–मेलापके काले सः प्रति वर्षं बाबुघाटस्य आउट्राम्–घाटे आपत्कालिक–वैद्यकीय–एककं चिकित्सालयं च सञ्चालयति। तस्य संस्थया 1996 तमे वर्षात् आरभ्य निरन्तरं मकर–सङ्क्रान्तेः अवसरः तीर्थयात्रिकाणां सेवा क्रियते। रायः अवदत्—एतत् सेवा–कार्यं गङ्गायाः धारा इव वर्षाणि बहूनि अविरतं प्रवहति।

हिन्दुस्थान समाचार