इतिहासस्य पृष्ठेषु ०३ जनवरी - सावित्रीबाई फुले — भारतस्य प्रथमा महिला-शिक्षिका तथा सामाजिक-परिवर्तनस्य अग्रदूता
१८३१ तमे वर्षे जाता सावित्रीबाई फुले भारतीय-समाजे सामाजिक-परिवर्तनस्य अग्रदूता आसीत्। सा न केवलं भारतस्य प्रथमा महिला-शिक्षिका आसीत्, अपि तु मराठी-भाषायाः प्रथमा महिला-कवयित्री तथा साहससम्पन्ना समाज-सुधारिका च आसीत्। तस्याः जन्म ३ जनवरी १८३१ तमे वर
भारतीय समाज में सामाजिक परिवर्तन की अग्रदूत सावित्रीबाई फुले। फोटो - इंटरनेट मीडिया


१८३१ तमे वर्षे जाता सावित्रीबाई फुले भारतीय-समाजे सामाजिक-परिवर्तनस्य अग्रदूता आसीत्। सा न केवलं भारतस्य प्रथमा महिला-शिक्षिका आसीत्, अपि तु मराठी-भाषायाः प्रथमा महिला-कवयित्री तथा साहससम्पन्ना समाज-सुधारिका च आसीत्। तस्याः जन्म ३ जनवरी १८३१ तमे वर्षे महाराष्ट्रस्य नायग्रामे अभवत्। तस्मिन् काले स्त्रीणां दलितानां च शिक्षायाः अधिक: विरोधः आसीत्, तथापि सावित्रीबाई फुले ताः सामाजिक-कुप्रथा निवारणाय निर्भयतया सम्मुखिना अभवत्।

स्वपतिना महात्माज्योतिराव-फुलेन सहकार्येण सा १८४८ तमे वर्षे पुणेनगरे देशस्य प्रथमं बालिका-विद्यालयं प्रारब्धवती। एषः कार्यारम्भः तस्मिन् युगे क्रान्तिकारी इति मन्यते स्म। अध्यापनाय गच्छन्ती सा सामाजिक-विरोधम्, अवमाननां, हिंसामपि सोढवती, किन्तु कदापि न विचलिता। सावित्रीबाई विधवा-पुनर्विवाहस्य, स्त्री-शिक्षायाः तथा दलित-उत्थानस्य कृते सक्रियतया कार्यं कृतवती।

सा संवेदनशीला कवयित्री अपि आसीत्, यस्याः काव्येषु सामाजिक-समता, शिक्षा, मानवता च स्पष्टतया प्रकाशन्ते। १८९७ तमे वर्षे पुणेनगरे प्लेग-महामारीकाले रोगिणां सेवां कुर्वन्ती सा स्वयं तेन रोगेण पीडिता अभवत्, ततः तस्याः निधनम् अभवत्। सावित्रीबाई फुले महत् साहसस्य, करुणायाः तथा समतायाः संघर्षस्य प्रेरणादायकं दृष्टान्तमस्ति, या अद्यापि समाजं दिशां दर्शयति।

महत्त्वपूर्णानि घटनाचक्राणि

१८३३ — ब्रिटेन-देशेन दक्षिण-अटलाण्टिक-सागरे फॉकलैण्ड-द्वीपेषु आधिपत्यं स्थापितम्।१८८० — ‘इलस्ट्रेटिड् वीक्ली ऑफ् इण्डिया’ इत्यस्य प्रथमाङ्कः बम्बई-नगरे प्रकाशितः।१८९४ — रवीन्द्रनाथ-ठाकुरेण शान्तिनिकेतने ‘पौष-मेलायाः’ उद्घाटनं कृतम्।१९०१ — शान्तिनिकेतने ब्रह्मचर्य-आश्रमः आरब्धः।१९११ — अमेरिकायां डाक-अवशेष-धनागारस्य उद्घाटनम् अभवत्।१९२९ — महात्मा-गान्धी लॉर्ड-इर्विन- इत्यनेन सह समागतः।१९३८ — अमेरिकायाः तत्कालीन-राष्ट्रपतिना डी.रूजवेल्ट-इत्यनेन पोलियो-रोगस्य उपचार-अनुसन्धानाय प्रतिष्ठानं स्थापितम्।१९४३ — दूरदर्शने प्रथमवारं लुप्त-जनानां विषये सूचनाः प्रसारिताः।१९५6 — फ्रान्स-देशे ‘एफिल्-टॉवर’ इत्यस्य ऊर्ध्व-भागे अग्निदुर्घटनया क्षतिः जाता।१९५७ — अमेरिकायाः पेनसिल्वेनिया-राज्ये प्रथमवारं विद्युत्-घटिका प्रदर्शिता।१९५९ — अलास्का अमेरिका-देशस्य ४९ तमं राज्यं घोषितम्।१९६८ — देशस्य प्रथमस्य ऋतु-विज्ञान-क्षेपणी ‘मेनका’ इत्यस्य प्रक्षेपणम्।१९७४ — बर्मा-देशेन (अधुना म्यांमार) संविधानम् अंगीकृतम्।१९९१ — इजरायल-देशेन २३ वर्षाणाम् अनन्तरं सोवियत-संघे वाणिज्य-दूतावासः पुनः उद्घाटितः।१९९३ — ‘स्टार्ट-द्वितीय’ सन्धौ अमेरिका-रूस-राष्ट्रपतिभ्यां हस्ताक्षराणि कृतानि।१९९५ — हरियाणा-राज्यस्य डबवाली-नगरे विद्यालये महाग्निदुर्घटनायां ३६० जनानां निधनम् अभवत्।२००० — कलकत्ता-नगरस्य आधिकारिकं नाम ‘कोलकाता’ इति परिवर्तितम्।२०२० — प्रधानमन्त्री नरेन्द्र-मोदी बेंगलुरु-नगरे भारतीय-विज्ञान-कांग्रेसस्य १०७ तम-सत्रस्य उद्घाटनं कृतवान्।

जन्म-

१८३१ — सावित्रीबाई फुले — सामाजिक-कार्यकर्त्री, भारतस्य प्रथमा महिला-शिक्षिका, मराठी-भाषायाः प्रथमा महिला-कवयित्री।१८३६ — मुंशी नवल-किशोरः — एशिया-प्रदेशस्य प्राचीनतमस्य मुद्रणालयस्य संस्थापकः (अलीगढ़-नगरे)।१८८१ — बी.एम.श्रीकान्तेयः — कन्नड-लेखकः अनुवादकश्च।१८८८ — भूपति-मोहन-सेनः — प्रसिद्धः गणितज्ञः भौतिक-विज्ञानी च।१९०३ — जयपाल-सिंहः — भारतीय-हॉकी-क्रीडायाः प्रसिद्धः क्रीडापटुः।१९१५ — चेतन-आनन्दः — प्रसिद्धः चलचित्र-निर्माता निर्देशकश्च।१९२७ — जानकी-बल्लभ-पटनायकः — ओडिशा-राज्यस्य पूर्व-मुख्यमन्त्री।१९३६ — केदारनाथ-चौधरी — मैथिली-भाषायाः प्रसिद्धः उपन्यासकारः।१९३८ — जसवन्त-सिंहः — भारतीय-जनता-पक्षस्य वरिष्ठः राजनेता।१९४१ — संजय-खानः — बॉलीवुड-चलचित्र-अभिनेता।१९५४ — बागेश्री-चक्रधर: — आकाशवाणी-दूरदर्शनयोः स्वर-परीक्षिता मान्यता-प्राप्ता कलाकारिणी।१९६७ — संजीव-कुमार-सिंगारी — आन्ध्र-प्रदेश-राज्यस्य राजनीतिज्ञः।१९७७ — गुल-पनाग: — प्रतिरूपाणि (मॉडल), बॉलीवुड-चलचित्र-अभिनेत्री।१९८१ — नरेश-अय्यरः — भारतीयः पार्श्वगायकः।

निधनानि-

१८७१— कुरियाकोसी इलिआस-चावरा- केरलस्य सीरियन-कैथोलिक-सन्तः समाज-सुधारकश्च।१९७२— मोहन-राकेशः— लेखकः नाटककारश्च।१९७९ — परशुराम-चतुर्वेदी — विद्वान् शोधकर्मी समीक्षकश्च।१९८४ — डॉ.ब्रह्म-प्रकाशः — पद्मश्री तथा पद्मभूषण-पुरस्काराभ्यां सम्मानितः भारतीयः वैज्ञानिकः।२००२ — सतीश-धवनः — भारतस्य प्रसिद्धः क्षेपणास्त्र-वैज्ञानिकः।२००५ — जे.एन.दीक्षितः — भारतीयः शासकीयः अधिकारी।२०१३ — एम.एस.गोपालकृष्णनः — भारतस्य प्रसिद्धः वायलिन-वादकः।

हिन्दुस्थान समाचार / अंशु गुप्ता