अस्माकं संस्कृतेः स्वभावस्य च प्राधान्यं परं मूलं तु दृढं स्यादेव - मुख्यमंत्री रेखा गुप्ता
नवदिल्ली, 02 जनवरीमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखा गुप्ता शुक्रवासरे अवदत् यत् विकासः प्रगतिश्च अस्माकं प्राथमिकता अस्ति, किन्तु अस्माकं संस्कृत्याः स्वभावस्य च मूलानि सर्वदा दृढानि एव भवितव्यानि। मुख्यातिथिरूपेण रेखा गुप्ता अद्य दिल्लीस्थित
शब्दोत्सव में शामिल मुख्यमंत्री रेखा गुप्ता एवं मंत्री कपिल मिश्रा


नवदिल्ली, 02 जनवरीमासः (हि.स.)।

दिल्लीमुख्यमन्त्री रेखा गुप्ता शुक्रवासरे अवदत् यत् विकासः प्रगतिश्च अस्माकं प्राथमिकता अस्ति, किन्तु अस्माकं संस्कृत्याः स्वभावस्य च मूलानि सर्वदा दृढानि एव भवितव्यानि। मुख्यातिथिरूपेण रेखा गुप्ता अद्य दिल्लीस्थिते मेजर ध्यानचन्दराष्ट्रियक्रीडांगणे त्रिदिवसीयस्य ‘दिल्ली शब्दोत्सवस्य 2026’ उद्घाटनकाले एतद् अवदत्। एषः कार्यक्रमः प्रान्तसर्वकारस्य कला-संस्कृति-भाषा-विभागेन सुरुचिप्रकाशनेन च संयुक्तरूपेण आयोजितः अस्ति। अस्य उद्देश्यं भारतीयतायााः संस्कृति-साहित्ययोः च समागमं कर्तुम् अस्ति।

अस्मिन्नवसरे मुख्यातिथिरूपेण रेखा गुप्ता, विशिष्टातिथिरूपेण संस्कृति-पर्यटनमन्त्री कपिल मिश्रा, केन्द्रीयमार्गपरिवहन-राजमार्गराज्यमन्त्री हर्ष मल्होत्रा, अखिलभारतीयप्रचारप्रमुखः सुनील आंबेकरः, दिल्लीशब्दोत्सवस्य संयोजकः हर्षवर्धन त्रिपाठी, सुरुचिप्रकाशनस्य अध्यक्षः राजीव तुली इत्येवम् अन्ये विशिष्टजनाः उपस्थिताः आसन्।

मुख्यमन्त्रिणा उक्तम् “एतन्मञ्चं भारतीयेतिहासस्य त्रिषु कालेषु—अतीते वर्तमानकाले भविष्यति च—संवादं स्थापयिष्यति, यः वैदिकयुगात् आरभ्य अद्यतनस्य डिजिटलयुगस्य पर्यन्तं भारतस्य प्रगतिं दर्शयिष्यति।”

दिल्लीसंस्कृतिमन्त्री कपिल मिश्रा अवदत् यद् “यदा कश्चन शिलाखण्डः सेनायाः उपरि क्षिप्यते वा, पुलिस् इत्यस्य उपरि क्षिप्यते वा, मन्दिरे उपरि क्षिप्यते वा, सः शिलाखण्डः हस्ते पश्चात् आगच्छति, प्रथमं तु मनसि एव उपजायते। यः नक्सलीजनः अस्त्रं गृह्णाति, यः जिहादीआतङ्कवादी अस्त्रं गृह्णाति, चिकित्सकरूपेणापि यो बमं कृत्वा विस्फोटाय सज्जो भवति यत्तस्य बिस्फोटो हस्ते अनन्तरं आगच्छति, मनसि पूर्वमेव स्थाप्यते। एषा या मनसि आरोपिता अस्त्रविस्फोटनिर्माणवृत्तिः यद् एष एव वैचारिकआतङ्कवादः। अस्य वैचारिकआतङ्कवादस्य उपरि सर्जिकल् स्ट्राइक इति उच्यते अयं दिल्लीशब्दोत्सवः।”

मन्त्रिणा अवदत् यद् “वयम् अपि एतादृशं संकल्पं कृतवन्तः यत् दिल्लीं नक्सलीविचारधारात्, मिथ्याइतिहासात्, धर्मविरोधिचिन्तनात् च विमोचयितुं यत् सम्भविष्यति तत् करिष्यामः, अस्य आरम्भः अस्मात् दिल्लीशब्दोत्सवात् भवति।” सः अपि घोषणां कृतवान् यत् एतत् आयोजनं प्रतिवर्षं भविष्यति।

राजीव तुली अवदत् यद् “यदा अस्य राष्ट्रस्य समाजः जागरूकः भवति संगठितश्च भवति, तदा एतादृशानि भव्य दिव्य आध्यात्मिक सामाजिक साहित्यिक कार्यक्रमानि करोति। तेन विश्वाय ज्ञास्यते यत् भारतः कुतः ‘विश्वगुरुः’ इति, अथवा विश्वगुरुत्वं किमर्थं प्राप्नोति। सः कुंभमहोत्सवो भवतु, अथवा एषः साहित्यिक-सांस्कृतिककुंभः—एवमेव।”

प्रथमदिनस्य सत्रं “स्वावलम्बनात् शौर्यं तथा अन्तरङ्गरणं—आन्तरिकस्य मोर्चदलस्य परिस्थितयः” इत्यस्मिन् विषयेषु केन्द्रीकृतम् आसीत्। सांस्कृतिकसन्ध्या सायं षट्वादने आरब्धा, यस्मिन् माधवाज्-बैण्ड तथा हर्षदीपकौर इत्येतयोः प्रस्तुतयः अभवन्।

द्वितीयदिने (३ जनवरी) ‘हिन्दूइतिहासः’, ‘मिथकस्य सत्यं’, ‘चलंचित्रेषु हिन्दूः’, ‘वन्देमातरम् तथा बंगालः’ इत्यादिषु महत्वपूर्णेषु विषयेषु सत्राणि भविष्यन्ति। सायं 5:30 वादनतः आरब्धायां सांस्कृतिकसन्ध्यायां प्रहलादसिंह टिपाणिया तथा पाण्डवाज्-बैण्डदलात् स्वकला प्रदर्शयिष्यतः।

उत्सवस्य अन्तिमदिने ‘संघशक्ति: कलियुगे’ तथा ‘देशस्य आन्तरिक-बाह्यसुरक्षायाः विषये उद्बोधनम्’ इत्येवं समसामयिक-वैचारिकसत्राणि भविष्यन्ति। समापनसत्रं सायं 5:30 वादनतः आरभ्य साधो-बैण्डदलस्य गायकस्य च हंसराज् रघुवंशी इत्यस्य प्रस्तुत्यन्ते समाप्यते।

अस्मिन् अवसरे त्रिषु दिनेभ्यः अधिकानि चत्वारिंशद् पुस्तकलोकार्पणान्यपि, षट् विशालाः सांस्कृतिककार्यक्रमाः, द्वे महती कविसम्मेलनौ, युवानां कृते ओपन्-माइक् कार्यक्रमः, विविधानां प्रकाशनानां पुस्तकविक्रयस्थलानि, भोजनस्य फूड्-स्टाल्, शताधिकवक्तारः, महाविद्यालय-विश्वविद्यालयानां विद्यार्थिनः च भागं ग्रहीष्यन्ति।

एषः कार्यक्रमः प्रभाते दशवादनतः रात्रौ दशवादनपर्यन्तं प्रवर्तिष्यते, प्रवेशः च निःशुल्कम् अस्ति।

---------------

हिन्दुस्थान समाचार