नेपालस्य सामान्यनिर्वाचने 62 दिनानि शिष्टानि, सर्वजिल्लासु सामग्री प्रापयितुं यत्नश्शुभारब्धः
काठमांडूः, 02 जनवरीमासः (हि.स.)। पञ्चमे दिनाङ्के मार्चमासीये दिने भविष्यति प्रतिनिधिसभानिर्वाचनं, तस्मिन् इदानीं केवलं द्विषष्टिदिनानि एव अवशिष्टानि। एतत् दृष्ट्वा निर्वाचन-आयोगेन सर्वेषां जनपदानां निर्वाचन-कार्यालयेषु आवश्यक-चुनाव-सामग्रीं प्रेषय
निर्वाचन आयोग नेपाल


काठमांडूः, 02 जनवरीमासः (हि.स.)।

पञ्चमे दिनाङ्के मार्चमासीये दिने भविष्यति प्रतिनिधिसभानिर्वाचनं, तस्मिन् इदानीं केवलं द्विषष्टिदिनानि एव अवशिष्टानि। एतत् दृष्ट्वा निर्वाचन-आयोगेन सर्वेषां जनपदानां निर्वाचन-कार्यालयेषु आवश्यक-चुनाव-सामग्रीं प्रेषयितुं प्रयत्नः आरब्धः। आयोगस्य अनुसारं निर्वाचन-सामग्री-आपूर्त्यर्थम् उदग्रविमान-वाहनानि, ट्रक्, कन्टेनर् तथा कूरियर्-सेवाः उपयोज्याः भविष्यन्ति। एतेषु क्षेत्रेषु कार्यरतानि संस्थानानि संस्थाश्च सूचीबद्धतायै आवेदनं दातुं आहूताः। इच्छवः सेवा-प्रदातारः निर्दिष्टान् मापदण्डान् पूरयित्वा आवेदनं दास्यन्ति।

निर्वाचन-आयोगस्य वक्तव्ये उक्तं यत् सर्वप्रकाराणि निर्वाचन-सामग्रीणि देशव्यापीजनपदेषु प्रेषयितुं सूचना प्रकाशिताऽस्ति। दुर्गमे हिमालयीयजनपदेशु निर्वाचनसम्बद्धाः सर्वा सामग्रीः नेतुं उदग्र-सेवा उपयुज्यते। यत्र तु ट्रक् अथवा कन्टेनर्-यात्रायाः मार्गः विद्यते, तत्र एतानि वाहनानि प्रयुज्यन्ते।

काठमाण्डूनगरात् प्रेष्यमाणाः निर्वाचन-सामग्रीः जनपद-मुख्यालयात् सर्वेषु स्थानीय-निकायेषु प्रापयितुं कोरियर-सेवा उपयोगिनी भविष्यति। काठमाण्डुतः एताः निर्वाचन-सामग्र्यः सैन्य-रक्षणेन सर्वेषु जनपदेषु प्रेष्यन्ते, तथा च जनपदे विद्यमानेषु सैन्यस्थानेषु मतदान-दिनपर्यन्तं सुरक्षितरूपेण स्थापयिष्यन्ते।

---------------

हिन्दुस्थान समाचार